पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
298
[अयोध्याकाण्डः
वनवासदुःखप्रतिबोधनम्

 [१]क्रोधलोभौ विमोक्तव्यो कर्तव्या तपसे मतिः ।
 न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ २४ ॥

 भेतव्ये-भेतव्यविषये । प्रागुक्तसर्पादिपदार्थविषय इत्यर्थः ॥ २४ ॥

 तदलं ते वनं गत्वा क्षमं न हि वनं तव ।
 विमृशन्निह पश्यामि बहुदोषमतो वनम् ॥ २५ ॥

 वनं मत्वाऽलमिति । 'अलं खल्वोः' इति प्रतिषेधार्थालमुपपदे क्त्वा । वनं न गन्तव्यमित्यर्थः ॥ २५ ॥

 वनं तु नेतुं न कृता मतिर्यदा
  बभूव रामेण तदा महात्मना ।
 न तस्य सीता वचनं चकार तत्
  ततोऽब्रवीद्राममिदं सुदुःखिता ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टाविंशः सर्गः


 तद्वचनं न चकार । वनाननुगमननियोगं नाङ्गीचकार, तत एव हेतोरिदमब्रवीत् । तरु (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टाविंशस्सर्गः



  1. क्रौधमोहौ-ङ.