पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८ सर्गः]
297
कथं सहेत दुःखानि वने सीतेत्यमन्यत

 [१]अतीव वातास्तिमिरं बुभुक्षा चास्ति नित्यशः ।
 भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ १८ ॥

 तिमिरमिति । रात्रिष्विति शेषः ॥ १८ ॥

 सरीसृपाश्च बहवो बहुरूपाश्च, भामिनि !
 चरन्ति पथि ते दर्षात्ततो दुःखतरं वनम् ॥ १९ ॥
 नदीनिलयना[२]स्सर्पा नदीकुटिलगामिनः ।
 तिष्ठन्त्यावृत्त्य पन्थानं ततो दुःखतरं वनम् ॥ २० ॥

 नदीवत्कुटिलगामिनस्तथा ॥ २० ॥

 पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैस्सह ।
 बाधन्ते नित्यं, अबले । सर्वं दुःखमतो वनम् ॥ २१ ॥

 पतङ्गाः-शलभाः ॥ २१ ॥

 द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च, भामिनि !
 वने [३]व्याकुलशाखाग्राः तेन दुःखतरं वनम् ॥ २२ ॥

 व्याकुलशाखाः व्याकुलाग्राश्च तथा । उभयं क्रमात् द्रुमकुशविशेषणम् ॥ २२ ॥

 कायक्लेशाश्च बहवो भयानि विविधानि च ।
 अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ २३ ॥


  1. तिमिरं-अतिनिबिडत्वात् मध्याह्नेऽपि । बुभुक्षा--अपरिचिताहारसेवया।
  2. सर्वे ङ.
  3. कुशकाशयोश्शाखाः कुशकाशपर्णान्येव-गो.