पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
296
[अयोध्याकाण्डः
वनवासदुःखपतिबोधनम्

 वृक्षावपतितैः-वृक्षात्स्वयमेव पतितैः फलैरेव केवलं सन्तोषः कर्तव्यः ॥ १२ ॥

 उपवासश्च कर्तव्यो यथाप्राणेन, मैथिलि !
 [१]जटाभारश्च कर्तव्यो वल्कलाम्बर[२]धारिणा ॥ १३ ॥

 यथाप्राणेन-यथावलानुसारेण ॥ १३ ॥

 [३]देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् ।
 प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ १४ ॥

 कार्यस्त्रिरभिषेकश्च [४]काले काले च नित्यशः ।
 चरतां नियमेनैव तस्माद्दुःखतरं वनम् ॥ १५ ॥

 नियमेनैव चरतामिति । कालक्षेपं कुर्वतामित्यर्थः ॥ १५ ॥

 [५]उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।
 आर्षेण विधिना वेद्यां, बाले ! दुःखमतो वनम् ॥ १६ ॥

 आर्षेण विधिनेति । न तु पौरजानपदपदार्थोपेतविधिनेत्यर्थः ॥

 [६]यथालब्धेन सन्तोषः कर्तव्यस्तेन, मैथिलि !
 यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ॥ १७ ॥

 तेनेति । वन्यपदार्थेनेति यावत् ॥ १७ ॥


  1. केशसंस्कारोपयोगितैलासभावादिति भावः ।
  2. धारणम्-ङ.
  3. यद्यपि नगरेऽपि देवतादि कार्यं निर्वर्तनीयमेव; परन्तु वने तावत्सामग्रीसंपादनक्केशः अत्र विवक्षितः
  4. काले काले-त्रिकालेष्वपि । अत्रापि नगरापेक्षया विशेषे हेतुमाह-चरतां नियमेनेति ।
  5. उपहारः-बलिः-गो. आर्षेण वानप्रस्थोचित्तेन-ती.
  6. यथाल्लब्धेन-यावलब्धेन-गो.