पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८ सर्गः]
295
बोधयामासः विविधान् वनवासश्रमानसौ

 [१]क्रीडमानाश्च विस्रब्धा मत्ताश्शून्ये महामृगाः ।
 दृष्ट्वा समभिवर्तन्ते, सीते ! दुःखमतो वनम् ॥ ८ ॥

 विस्रब्धाः–निश्शङ्का इति यावत् । शून्ये निर्मानुषे । दृष्ट्वा त्वां समभिवर्तन्ते-अभिमुखमागच्छन्ति ॥ ८ ॥

 सग्रहास्सरितश्चैव पङ्कवत्यश्च दुस्तराः ।
 मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ ९ ॥

 गजैरपि दुस्तरा इति योजना ॥ ९ ॥

 लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः
 निरपाश्च [२]सुदुःखाश्च मार्गा दुःखमतो वनम् ॥ १० ॥

 कृकवाकुः-वनकुक्कुटः । निरपाः-निर्गतोदकाः, ‘ऋक्पू: इत्यादिना अप् समासान्तः ॥ १० ॥

 सुप्यते पर्णशय्यासु [३]स्वयं भग्नासु भूतले ।
 रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ ११ ॥

 स्वयं भग्नासु-स्वयं पतितशीर्णपर्णकृतास्त्रित्यर्थः । श्रमखिन्नेन--वह्निसमित्कुशपुष्पफलाद्या- हरणश्रमखिन्नेन मया उक्तशय्यायां सुप्यते । आगते त्वयापि तत्र स्वपितव्यम् । अतः-दुःखत्यादि ॥ ११ ॥

 अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना ।
 फलैर्वृक्षावपतितैः, सीते! दुःखमतो वनम् ॥ १२ ॥


  1. शून्ये निर्मानुषे वने विलम्बाः-निरुपद्रवत्वात्, अत एव क्रीडमानाः मत्ताश्च महामृगाः अदृष्टपूर्वमनुष्यदर्शनेन संभ्रान्ता अभिमुखं पतेयुरिति भावः
  2. सुदुर्गाश्च-ङ.
  3. स्वयं भग्नासु-न तु किसलयनिर्मित शयनमिति भावः ।