पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
294
[अयोध्याकाण्डः
वनवासदुःखप्रतिबोधनम्

 रेति शिक्षात्मनापि सुशकयोजनोऽयं ग्रन्थः । अथापि 'नास्मि संप्रति वक्तव्या' इति सीतयोक्तत्वाच्छिक्षार्थ उपेक्ष्यते ॥ ३

 सीते! यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले !
 वने दोषा हि बहवो [१]वदतस्तान्निबोध मे ॥ ४ ॥

 तानिति । दोषानिति यावत् ॥ ४ ॥

 सीते! विमुच्यतामेषा वनवासकृता मतिः ।
 बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ५ ॥

 कान्तारं-दुर्गमं वनं हि-यस्मात् बहुदोषामित्यभिधीयते ॥ ५ ॥

 हितबुध्या खलु वचो मयैतदभिधीयते ।
 सदा[२] सुखं न जानामि दुःखमेव सदा वनम् ॥ ६ ॥

 हितबुध्याऽभिधीयत इति । न तु त्वद्भरणादिप्रयासोपाधिनेत्यर्थः । सदा-सर्वकालेऽपि सुखं नास्तीति जानामि-निश्चिनोमि ॥

 [३]गिरिनिर्झरसंभूता गिरि[४]निर्दरवासिनाम् ।
 सिंहानां निनदा [५]दुःखाः श्रोतुं दुःखमतो वनम् ॥ ७ ॥

 [६]निर्झरशब्दो गिरिनिर्झरगिरिदरीवाचकः । गिरिनिर्दरसम्भूताः- गिरिनिर्झरसंभूताः निनदाः तथा गिरिनिर्दवासिनां-गिरिदरीवासिनां निनदाश्च श्रोतुं दुःखं यतः अतो वनं वनवासः दुःखमेव ॥ ७ ॥


  1. वसत:-ङ. वसतः पुरुषस्येत्यर्थः
  2. सुखं सुखदं न भवति, दुःखदमेव-ति.
  3. गिरिनिर्झराः-गिरि नद्यः । तन्निनदैः संभूताः-प्रभूताः गिरिनिर्दरवासिनां सिंहानां निनदाः-ति.
  4. निर्दर-क.
  5. घोरः-ङ.
  6. कन्दर-ङ.