पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
293
एवं ब्रुवन्तीमपि ता नैञ्छन्नेतुं स राघवः

 तथेति । न्यायावलम्बनेनेति यावत् । न निनीषति स्म । अत एव चास्या निवर्तनप्रयोजननिमित्तं वने निवासस्य दुःखतां-दुःखत्वज्ञापनं प्रति सत्-संभवत् बहुहेतुजातमुवाच । वीर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतरुटीकायां अयोध्याकाण्डे सप्तविंशः सर्गः


अष्टाविंशस्सर्गः

[वनवासदुःखप्रतिबोधनम्]

 एवं ब्रुवन्तीं सीतां तु [१]धर्मज्ञो धर्मवत्सलः ।
 न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ १ ॥

 निवर्तनाय बहुदुःखोपाचिमाहेत्युक्तं तदेव प्रपञ्चयते एवमित्यादि ॥ १ ॥

 सान्त्वयित्वा पुनस्तां तु वाष्पदूषितलोचनाम् ।
  [२]निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ २ ॥
 सीते! महाकुलीनाऽसि धर्मे च निरता सदा ।
 इहाचर स्वधर्मं त्वं [३]मा [४]यथामनसस्सुखम् ॥ ३ ॥

 महाकुलीनत्वादिवादः स्ववाक्यपरिग्रहप्रयोजनः । स्वधर्मं स्वकुलधर्मं इहैव स्थित्वा यथा मनसः सुखं भवति-स्वशक्त्यनुसारेणेति यावत् मा-मदागमनमुद्दिश्याचर । यथा मनसस्सुखं माच-


  1. धर्मज्ञा-ङ.
  2. निवर्तनार्थ-ङ.
  3. मे-ङ.
  4. यथा मे मम मनसस्सुखं भवति तथाचर-ति. मनसो यथा सुखं भवति तथा मा चरेत्यर्थः-गो.