पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
292
[अयोध्याकाण्डः
सीताऽनुगमनप्रार्थना

 अहं गमिष्यामि वनं सुदुर्गमं
  [१]मृगायुतं वानरवारणैश्च
 वने निवत्स्यामि यथा पितुर्गृहे
  तवैव पादावुपगृह्य [२]संयता ॥ २२ ॥

 मृगैरायुतं तथा ॥ २२ ॥

 अनन्यभावामनुरक्तचेतसं
  त्वया वियुक्तां मरणाय निश्चिताम् ।
 नयस्व मां साधु कुरुष्व याचनां
  न ते मयाऽतो गुरुता भविष्यति ॥ २३ ॥

 याचनां-मामिकां वनानुगमनयाच्ञां साधु कुरुष्व-चरितार्थं संपादय । मया क्रियमाणात् अतः-मदनुगमनाद्धेतोः गुरुता-भारः न भविष्यति ॥ २३ ॥

 तथा ब्रुवाणामपि धर्मवत्सलो
  न च स्म सीतां नृवरो निनीषति ।
 उवाच चैनां बहु [३]सन्निवर्तने
  वने निवासस्य च दुःखतां प्रति ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तविंशस्सर्गः



  1. मृगः-मारीचमृगः । यानरबारणैः-वानरश्रेणैः सुग्रीवादिभिः ।
    पुनर्वनग्रहणात् वनेऽपि-अशोकवनेऽपि वत्स्यामि । पुनस्तवैव पादावुपसंगृह्य संयता-नियता भविष्यामि-गो.
  2. सम्मता-ङ.
  3. गोविन्दराजीये त्विदमेकं पदम्.