पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७ सर्गः]
291
स्वर्गेऽपि च न काङ्क्षेऽहं वासं राम ! त्वया विना

 फलमूलाशना नित्यं भविष्यामि न संशयः ।
 [१]न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ १६ ॥

 न ते दुःखं करिष्यामीति । अन्नपानविशेषसंपादनेनेति शेषः ॥

 इच्छामि सरितः शैलान् पल्वलानि वनानि च ।
 द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ १७ ॥
 हंस [२]कारण्डवाकीर्णाः पद्मिनीस्साधुपुष्पिताः ।
 इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ १८ ॥

 'मद्गुः कारण्डवः प्लवः' ॥ १८ ॥

 अभिषेकं करिष्यामि तासु [३]नित्यं यतव्रता ।
 'सह त्वया, विशालाक्ष ! रंस्ये परमनन्दिनी ॥ १९ ॥
 [४]एवं वर्ष[५]सहस्राणां शतं वाऽहं त्वया सह ।
 व्यतिक्रमं न वेत्स्यामि [६]स्वर्गोऽपि न हि मे मतः ॥ २० ॥

 त्वया सह वर्तमाना तस्य वर्षशतस्य व्यतिक्रमं-गमनं न वेत्स्यामि-न स्मरामि । स्वर्गौऽपि न मे मत इति । त्वद्वियुक्ताया इति शेषः ॥ २० ॥

 स्वर्गेऽपि च विना वासो भविता यदि, राघव !
 त्वया [७]मम, नरव्याघ्र ! नाहं तदपि रोचये ॥ २१ ॥

 तदेव विव्रियते—स्वर्गेऽपीत्यादि ॥ २१ ॥


  1. एतदनन्तरं-अग्रतस्ते गमिष्यामि मोक्ष्ये भुक्तवति त्वयि इत्यधिकम्-ङ.
  2. कारण्डवः-जलकुक्कुटः- गो.
  3. नित्यमनुव्रता-ङ
  4. वर्षसहस्राणां शतमपि न वेत्स्यामि-क्षणमिव नेष्यामि । किं पुनश्चतुर्दशसमा इति भावः-गो.
  5. सहस्राणि-ङ,
  6. स्वर्गेऽपि न हि मे मतिः-ङ.
  7. विना-ङ,