पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
290
[अयोध्याकाण्डः
सीताऽनुगमनप्रार्थना

 अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् ।
 नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ॥ ११ ॥

 यदेवं अतः-अहमित्यादि । गमिष्यामीति । तद्गमनमन्विति शेषः ॥ ११ ॥

 सुखं वने निवत्स्यामि यथैव भवने पितुः ।
 अचिन्तयन्ती [१]त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ॥

 त्रीन् लोकानचिन्तयन्तीति । तत्स्थसर्वसंसारिशुभाशुभदुश्चिन्ताप्रसङ्गरहितेति यावत् । पतिव्रतं-पतिहिताचरणलक्षणवतप्रयोजनकमेव व्यापारं चिन्तयन्ती ॥ १२ ॥

 शुश्रूषमाणा ते नित्यं नियता [२] ब्रह्मचारिणी ।
 सह रंस्ये त्वया, वीर ! वनेषु मधुगन्धिषु ॥ १३ ॥

 ब्रह्मचारिणी-वने वासादेव कामभोगासक्तिरहिता सती ॥ १३ ॥

 त्वं हि कर्तुं वने शक्तः, राम ! संपरिपालनम् ।
 अन्यस्यापि जनस्येह किं पुनर्मम [३]मानद ! ॥ १४ ॥

 अन्यस्यापीति । त्वदेकशरण जनान्तरस्यापीत्यर्थः ॥ १४ ॥

 सह त्वया गमिष्यामि वनमद्य न संशयः ।
 नाहं शक्या, महाभाग ! निवर्तयितुमुद्यता ॥ १५ ॥

 निवर्तयितुं न शक्येति । न्यायप्राप्तानुगमनत्वादित्याशयः ॥


  1. त्रैलोक्यैश्वर्यमप्यगणयन्तीत्यर्थः-गो.
  2. वने तापसवृत्तिनिष्ठस्य भवतो मया न कश्चनोऽपराधः स्यात् इत्यभिप्रायेणाह-ब्रह्मचारिणीति । भवस्समीपस्थितिमात्रमप्यलमिति भावः ।
  3. मानद- 'मानश्चित्तसमुन्नतिः ; स्वशेषत्वज्ञानेन स्वाश्रितानां चित्तौन्नत्यप्रद ! अथवा मानं-इयत्ता-मर्यादा सर्ववस्तूनां मर्यादाप्रदः त्वं पत्नीमर्यादामपि मह्यं देहीत्यर्थः ।