पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७ सर्गः]
289
किमिदं भाषसे राम ! भवानेको हि मे गतिः

 स्त्री सती कथं 'वनं गमिष्यामि' इति ब्रूत इत्यमर्षं, तथा मद्वचनमुल्लघ्य वक्तीति रोषं च त्यक्त्वा विस्रब्धः-निश्शङ्कः मां नय । तत्र हेतुगर्भं विशेषणं-वीरेति। त्यागप्रयोजकं पापं च मयि न विद्यते । नीतयापि मया सुखमेव । अत्रोभयत्र दृष्टान्तः-भुक्तशेषमुदकामिवेति । दुष्प्रापपानीयकान्तारयायिना पीतशेषं कमण्डलूनिष्ठं यथोदकं अपापं अवश्यनेयमात्मोपकार्येव केवलं तद्वदित्यर्थः ॥ ८ ॥

 [१][२]प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा ।
 सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ ९ ॥

 अवर्जनीयनित्यसम्बन्धत्वादपि नाहं परित्याज्येत्याह-प्रासादेत्यादि । प्रासादाग्रैः स्थितिमता, विमानैर्यानवता, योगबलात्केवलं वैहायसगतेन—मत्वर्थीयाजन्तः-गतिमता, तथा सर्वावस्थागतेनापि भत्री भर्तुः पादच्छायेव सह स्त्री सर्वावस्थागता भवतीति विशिष्यते विधीयते श्रुतिस्मृतिभिः ॥ ९ ॥

 [३]अनुशिष्टाऽस्मि मात्रा च [४]विविधाश्रयम् ।
 नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया ॥ १० ॥

 गुरूपदेशेनापि मेऽयमर्थस्सिद्ध इत्याह-मात्रेत्यादि । विविधाश्रयं-नानावस्थभर्तृनित्याश्रयं अनुशिष्टाऽस्मि । अतो मया यथावर्तितव्यं भर्तरि तद्विषये संप्रति न किञ्चिद्वक्तव्या उपदेष्टव्या ॥ १० ॥


  1. प्रासादाग्रैरिति पञ्चम्यर्थे तृतीया-गो. प्रासादाग्रे स्थित्यपेक्षयेति शेषः-ति. पुरुषो यामवस्थामाप्नोति तच्छायाऽपि तां प्राप्नोति यथेति वार्थः
  2. प्रासादाग्रे-ङ. च.
  3. एवमेव सर्वत्र पाठो दृश्यते । परन्तु व्याख्यायां प्रतीकधारणेन तु 'मात्रा न्नाप्यनुशिष्टास्मि पित्रा च विविधाश्रयम्' इति व्याख्यातुः पाठः स्यादिति प्रतिभाति
  4. पित्रा च विविधाश्रयं विविधप्रकारं यथा तथा-गो. विविधाश्रयं-विविधार्थं-ती. विषय आश्रयः' इति कोशात् आश्रयाः-विषयाः ये अवश्यज्ञेयाः ते सर्वेऽपि उपदिष्टपूर्वा इत्यर्थः ।