पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
288
[अयोध्याकाण्डः
सीतानुगमनप्रार्थना

तद्वशप्राप्तं स्वं स्वं भाग्यं-पुण्यफलं सौख्यं उपासते-प्राप्नुवन्ति, इदमपुण्यस्य चोपलक्षणम्, न तु स्वकृतपापपुण्यफलं स्वपित्रादयः । भार्या एकैव तु तस्य तस्य भर्तुर्भाग्यं-पुण्यफलमन्यच्च भर्त्रा सह प्राप्नोति । नान्यस्तस्य पित्रादिः । पित्रादेस्तेन सह कर्मसहत्वाभावात् । यदेवं कर्मतत्फलभोगसहत्वं स्त्रियास्सिद्धं शास्त्रतः, अत एवाहमपि वने वस्तव्यमिति युष्मत्पितृमातृकृतादेशेन युष्मद्विषयकेनापि अर्थादादिष्टवनवासैवेत्यर्थः ॥ ३-५ ॥

 न पिता नात्मजो नात्मा न माता न सखीजनः ।
 इह प्रेत्य च नारीणां पतिरेको गतिस्सदा ॥ ६ ॥

 यदेवं अतः-न पितेत्यादि । इह लोके प्रेत्य परलोके च नारीणां न पित्रादिर्गतिः । अपि तु पतिरेक एव सदा गतिः ॥ ६ ॥

 यदि त्वं प्रस्थितो दुर्ग [१]वनमद्यैव, राघव !
 अग्रतस्ते गमिष्यामि मृद्नन्ती [२]कुशकण्टकान् ॥ ७ ॥

 अतः-यदि त्वमित्यादि । मृद्नन्ती-मृदक्षोदे-मर्दयन्ती ।एतेन पद्भ्यामेव निस्सन्देहं गमिष्यामीत्युक्तं भवति । अतः कथमिदं वनवासदुःखं सहिष्यत इति न चिन्तनीयमिति भावः ॥ ७ ॥

 [३][४]रोषामर्षौ परित्यज्य [५][६]भुक्तशेषमिवोदकम् ।
 नय मां, वीर! विस्रब्धः [७]पापं मयि न विद्यते ॥ ८ ॥


  1. अद्यैव गमिष्यासीत्यवन्वयः
  2. कुशकण्टकान्-कुशाङ्कुरानिति यावत्
  3. स्वदनु वर्तनेन चरितार्थेयं भविष्यतीत्येवंरुपा या-ईर्ष्या-गो.
  4. ईर्ष्यारोषौ-ङ.
  5. भुक्तशेषं-शास्त्रनिषिद्धतयोक्तमुदकमिव ईर्ष्यारोषौ परित्यज्य-गो.
  6. पीतशेष-ङ.
  7. पापं-अपाराधः । मम त्यागे को वाऽपराधो मयि वर्तत इत्याशयः ॥