पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७ सर्गः]
287
एवमुक्ता तु वैदेही भर्तारमिदमब्रवीत्

 एवं रामेण गृहवासे नियुक्ते वनवास एव मम च पत्यनुव्रजननिजनित्यधर्मतो न्यायप्राप्त इति सीताऽऽह-एवमित्यादि । प्रणयादेव स्नेहबलादेव संक्रुद्धा–कथं मत्पृथक्स्थितिमादिशतीत्यमर्षवती ॥ १ ॥

 किमिदं भाषसे, राम ! वाक्यं [१]लघुतया ध्रुवम् ।
 त्वया यत्परिहास्यं मे श्रुत्वा, नरवरात्मज ! ॥ २ ॥

 स एवामर्षः प्रदर्श्यते--किमिदमित्यादि । लघुतया मयि च लघुभावेन त्वयि च क्षुद्रपुरुषभावावलम्बनेन च किमिदं भाषसे ! हे नरवरोत्तम ! त्वया यद्भाषितं तच्छ्रुत्वा मे ध्रुवं परिहास्यं-परिहासास्पदं जायते ॥ २ ॥

 [२]वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां, नृप !
 अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम् ॥ ३ ॥
 आर्यपुत्र ! पिता माता भ्राता पुत्रस्तथा स्नुषा ।
 स्वानि पुण्यानि भुञ्जाना एवं स्वं भाग्यमुपासते ॥ ४ ॥
 भर्तुर्भाग्यं तु भार्यैका प्राप्नोति, पुरुषर्षभ !
 [३]अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ ५ ॥

 कुत एवमित्यत्राह—आर्येत्यादि । तस्य तस्य प्राणिनः पित्रादयः स्वानि-स्वस्वानुष्ठितानि पुण्यानि भुञ्जानाः-उपभुञ्जानाः


  1. लघुतया-अत्यल्पतया ध्रुवं निश्चितं यथा तथा भाषसे। चतुर्दशवर्षपर्यन्त-भवत्प्रवासकाले मम गृहस्थितिर्हि नाल्पो विषयः । एकनिमेषमपि भवद्विरहा सहिष्ण्वाः कथमयमल्पः स्यात् । स्वं तु अतिसुकरमिवाल्पतया निश्चित्य भाषसे--अतोऽपहास्यमिदम् इति भावः ।
  2. अयं श्लोकः कुत्रचिन्न दृश्यते-ड.
  3. 'अर्धो वा एष आत्मनो यत्पत्नी इत्युक्तप्रक्रियया तव वनगमनादेश एव स्वदर्धशरीरभूताया ममाप्यादेश इत्यर्थः-ती.