पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
286
[अयोध्याकाण्डः
सीतानुगमतप्रार्थना

 अहं गमिष्यामि महावनं, प्रिये !
  त्वया हि वस्तव्यमिहैव, भामिनि !
 यथा [१]व्यलीकं कुरुषे न कस्यचित्
  तथा त्वया कार्यमिदं वचो मम ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षड्विंशः सर्गः


 यथा कस्य चिदपि मन्नियोगस्य व्यलीकं-'व्यलीकं त्वप्रियेऽनृते न कुरुषे-तथेदमपि वचः अमोघं कुरु-अत्रास्वेति यावत् । दल (३८) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्गामायणामृतकतकटीकायां अयोध्याकाण्डे षड्विंशः सर्गः


सप्तविंशस्सर्गः

[सीतानुगमनप्रार्थना]

 एवमुक्ता तु वैदेही [२]प्रियार्हा प्रियवादिनी ।
 प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ १ ॥


  1. व्यलीकत्वमिति यावत् । गोविन्दराजीये तु–व्यलीकं-अप्रियम् । यथा कस्यचिदपि जनस्य व्यलीकं न कुरुषे तथा वर्तितम्यम् । इदं मम वचश्च कार्यम् (इति भिनं वाक्यं ) । यद्वा यथा कस्यचिदपि व्यलीकं न कुरुषे तथा इदमपि मम वचस्त्वया कार्यमित्यर्थः । सर्वेषामपि प्रियमेव कुरुषे यदि-तर्हि मस्प्रियाचरणे किनु वक्तव्यमिति भावः ।
  2. अप्रियवादिन्यपि प्रियार्हा-प्रियभाषणार्हा-गो. यद्वा प्रियार्हा- प्रियभाषणार्हा । एवं प्रियभाषिणी च । ' परस्परं भावयन्तः' इति म्यायात । यदि तस्याः समीपे प्रियमुच्येत तद्युक्तं-यदा तु प्रियार्हायामपि तस्यां गृहवासनियोजनादिकमप्रियमुच्येत तदा प्रियवादिन्यपि सा किञ्चिदप्रियं ब्रूयादेवेत्याशयः ॥