पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः]
285
गच्छाम्यहं, वसेह एवं सुखेनेत्यवदत् स ताम्

 वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः ।
 स्नेहप्रणय [१]संभोगैः समा हि मम मातरः ॥ ३२ ॥

 स्नेहः-मातृत्वप्रयुक्तसन्तोषः । प्रणयः-अनुनयः-सेवा । संभोगः-अन्नपानादिविशेषप्रदानम् ॥ ३२ ॥

 भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।
 [२]प्रिये ! भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३३ ॥

 भ्रात्रा पुत्रेण च क्रमात्समानभावास्पदौ-तथा द्रष्टव्यौ । त्वयेति शेषः 'प्रिये' इति सम्बुद्धिः ॥ ३३ ॥

 विप्रियं न च कर्तव्यं भरतस्य कदाचन ।
 स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ ३४ ॥
 आराधिता हि शीलेन प्रयत्नैचोपसेविताः ।
 [३]राजानस्संप्रसीदन्ति प्रकुष्यन्ति विपर्यये ॥ ३५ ॥

 विपर्यये-शीलादिविपर्यये ॥ ३५ ॥

 औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः
 समर्थान् संप्रगृह्णन्ति जनानपि जनाधिपाः ॥ ३६ ॥

 जनानिति-प्राकृतान् रक्तस्पर्शरहितानिति यावत् ॥ ३६ ॥

 सा त्वं वसेह, कल्याणि ! राज्ञस्समनुवर्तिनी ।
 भरतस्य, रता धर्मे सत्यव्रतपरायणा ॥ ३७ ॥


  1. संभोगः-परिपालनं-गो. भुजपालनाभ्यावहारयोरिति धातुः ।
  2. त्वया-ङ.
  3. एतदनन्तरं--स्पृशन्निव गजो हन्ति जिघ्रन्निव मुजङ्गमः स्मयन्निव नृपो हन्ति मानयन्निव दुर्जनः ॥ इत्यधिकं-ङ.