पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
284
[अयोध्याकाण्डः
सीताप्रतिबोधनम्

 इत्यनुकर्षः। कुत एवमित्यत्राह-अनुकूलतयेत्यादि । अत्र 'नापि तेन  तु भर्तव्या' इति सर्वात्मना पाठो नाशितः प्राचीनः परेण [१] ॥ २६ ॥

 तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् ।
  [२]स प्रसाद्यस्त्वया, सीते! नृपतिश्च विशेषतः ॥ २७ ॥

 ननु तदनुकूलाचरणं किमर्थमित्यत्राह–तस्मा इत्यादि । नृपतिः- दशरथः ॥ २७ ॥

 अहं चापि प्रतिज्ञां तां गुरोस्समनुपालयन् ।
 वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ २८ ॥
 याते च मयि, कल्याणि ! वनं मुनिनिषेवितम् ।
 व्रतोपवासपरया भवितव्यं, तवानघे ! ॥ २९ ॥

 याते-गते ॥ २९ ॥

 काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।
 वन्दितव्यो दशरथः पिता मम जनेश्वरः ॥ ३० ॥

 काल्यं-सर्वस्मिन्नप्युषसि । अत्यन्तसंयोगे द्वितीया ॥ ३० ॥

 माता च मम कौसल्या वृद्धा सन्तापकर्शिता ।
 [३]धर्ममेवाग्रतः कृत्वा त्वत्तस्सम्मानमर्हति ॥ ३१ ॥

 त्वत्तस्सम्मानमर्हतीत्यत्र हेतुः–धर्ममेवाग्रतः कृत्वेति । यतः प्रवृत्ताऽस्मद्व(च)ननियोजन इति शेषः ॥ ३१ ॥


  1. गोविन्दराजेन
  2. सः त्वया विशेषतः प्रसाद्यः । चो हेतौ । यतो नृपतिरयं-ति.
  3. धर्ममेवाग्रतः कृत्वा, स्थिताया इति शेषः-गो. त्वन्मातुर्वन्दने किं फलमिति चेत्तत्राह-धर्ममिति-ति.