पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः]
283
रामोऽप्युवाच तस्यै स्ववनवासं यथाक्रमम्

 अस्तु, प्रकृते किमित्यत आह-चतुर्दशेत्यादि । वरनिर्जितेन पित्रा मद्व-नवासवरपरिपालनशेषतया पितृनियोगेन मया दण्डके वस्तव्यम् । भरतश्चापि द्वितीयवरपरिपालनशेषतया यौवराज्ये नियोजितः ॥ २३ ॥

 [१]भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ २४ ॥

 अथ सीताया गृहावस्थापनधिया वक्तव्यबुद्धिमुपदिशति-भरतस्येत्यादि । न कथ्यः-न श्लाघनीयः ॥ २४ ॥

 [२]ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।
 तस्मान्न ते गुणाः [३]कथ्या भरतस्याग्रतो मम ॥ २५ ॥

 ते प्रसिद्धा मम गुणाः । भरतस्याग्रत इति । 'ज्येष्ठो भ्राता पितृसमः' इति न्यायेन यदा कदाचित्त्वां मातृबुध्या नमस्कर्तुमागच्छति तदेति शेषः ॥ २५ ॥

 [४]अहं ते नानुकर्तव्यो विशेषेण कदाचन ।
 [५]अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २६ ॥

 अहं-अस्मत्स्वरूपं ते त्वया विशेषेण-विशिष्य कदाचन-कदापि नानुकर्तव्यः-नानुकरणीयः-नानुस्मरणीयः । भरतस्याग्रत


  1. सीताहृदयं शातुं बुद्ध्युपदेशेन प्रणयरोष मुत्पादयन्नाह भरतस्येति गो.
  2. बुद्धियुक्ता-ङ.
  3. श्लाघ्याः-ङ.
  4. 'अहं ते नानुवक्तव्यः' इति कतके पाठः-ति. 'नापि त्वं तेन भर्तव्या' इति गोविन्दराजीयपाठः । विशेषेण न भर्तव्या, किन्तु बन्धुसाधारण्येन रक्षणीयेश्यर्थः ।
  5. 'मम भर्तु राज्यमनेनापहृतं' इत्यादिप्रतिकूलाभिसन्धिस्त्याज्येति भावः ।