पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
282
[अयोध्याकाण्डः
सीताप्रतिबोधनम्

 इतीव [१] विलपन्तीं तां प्रोवाच रघुनन्दनः ।
 सीते ! [२]तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ १९ ॥

 विलपन्ती दुःखेन भाषमाणाम् ॥ १९ ॥

  [३]कुले महतित्यादिकथनं संभूते ! धर्मज्ञे ! धर्मचारिणि !
 शृणु, जानकि ! [४] येनेदं क्रमेणाद्यागतं मम ॥ २० ॥

 कुले महतीत्यादिकथनं अव्यग्रतया प्रत्राजनकारणप्रश्नोत्तरसिद्धिशेषतया । येन क्रमेणेदमिति । प्रव्राजनमिति यावत् । क्रमः-हेतुः ॥ २० ॥

 राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च ।
 कैकेय्यै मम मात्रे तु पुरा दत्तौ [५]महावरौ ॥ २१ ॥
 तयाऽद्य मम सज्जेऽस्मिन् अभिषेके नृपोद्यते ।
 प्रचोदितस्स समयो धर्मेण प्रतिनिर्जितः ॥ २२ ॥

 नृपेणोद्यते-प्रस्ताविते, तस्मिन्नमिषेके सज्जे सति तथा अद्य स समयः–प्राचीनो वरसङ्केतः प्रचोदितः-प्रवर्तितः । तेन तु राजा धर्मेण-धर्ममार्गेणैव प्रतिनिर्जितः ॥ २२ ॥

 चतुर्दश हि वर्षाणि वस्तव्यं दण्डके [६]मया ।
 पित्रा मे भरतश्चापि यौवराज्ये [७]नियोजितः ॥ २३ ॥
 सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ।


  1. विलपन्तीं-विविधं लपन्ती-गो. विविधं पृथ्छतीं शि.
  2. तत्रभवान् पूज्यः गो. ति.
  3. महतोऽप्रियस्य श्रवणे सीतायाः किंवा भविष्यतीति भयात् चित्तदाढ्यार्थे विविधगुणकीर्तनेन सम्बोधयति–कुळ इत्यादि-गो.
  4. येन क्रमेण येन मार्गेण-गो.
  5. वरे महत्वं त्वनिवार्यत्वेन-शि.
  6. मया पिवृचोदितेन-गो.
  7. नियोजितः मयेति शेषः । ज्येष्ठाज्ञां विना तस्य तल्लाभासंभवात्-ति.