पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः]
281
विवर्णवदनं रामं दृष्ट्वा सीताऽपि विभ्यथे

 न हस्ती चाग्रतः [१]श्रीमान् तव लक्ष्मणपूजितः ।
 प्रयाणे लक्ष्यते, वीर ! [२] कृष्णमेघगिरिप्रभः ॥ १६ ॥

 पुष्यरथः-केवलं लीलागमनादिप्रयोजनः युद्धानर्हो रथः । तस्याग्रतो निर्गमनं राज्ञो निर्जिगमिषोः प्रथमं भवति । तस्मिन् सत्यामिच्छायामारोहति । नो चेत्केवलमग्रे गच्छति । तथा हस्त्यादिश्च । कृष्णमेघप्रभो गिरिप्रभश्च तथा ॥ १५-१६ ॥

 न च काञ्चनचित्रं ते पश्यामि, प्रियदर्शन !
 [३]भद्रासनं पुरस्कृत्य [४]यान्तं, वीर ! [५]पुरस्सरम् ॥ १७ ॥

 वीरेति सम्बुद्धिः ॥ १७ ॥

 अभिषेको [६]यदा सज्जः किमिदानीऽमिदं तव ।
 अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १८ ॥

 अभिषेको यदा-यस्मात् सज्जः तथापीदानीं तवेदं किं-उक्तलक्षणवैपरीत्यमित्यर्थः । उक्तगजान्तराजचिह्नाभावानुवादः स्ववेश्मसमीपे तेषामननुभवात् ॥ १८ ॥


  1. श्रीमान्सर्व-ङ.
  2. कृष्णमेघयुक्तगिरिप्रमः । उभयोरुपमानत्वे वैषम्यापत्तिः-गो.
  3. भद्रासनं पुरस्कृत्य यान्तं ते पुरस्सरं-अग्रगं सेवकं न पश्यामिति. वीरपुरस्कृतं भद्रासने पुरस्कृत्य ते यातं गमनं न पश्यामि गो. वीर पुरस्सरं यथातथा पुरस्कृत्य यातं-भद्रासनं इति वा पुरतो नीयमानस्य भद्रासनस्य मर्यादार्थे वीराः तत्पुरतो गच्छन्तीति प्रसिद्धमेव,
  4. यातं ङ. च.
  5. पुरस्कृतम्-ङ.
  6. यदेति—यस्मिन् काले प्रहृष्टेन वाह्यं तदा किमेवं लक्ष्यस इति वार्थः, मयं तव-ङ. मुखवर्ण इत्यस्य विशेषणमिदम्.