पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
280
[अयोध्याकाण्डः
सीताप्रतिबोधनम्

 न ते शतशलाकेन जलफेननिभेन च ।
 आवृतं वदनं [१]वल्गु छत्रेणापि विराजते ॥ १० ॥

 शतं शलाका यस्मिन् छत्रे तत्तथा; छत्रेणावृतं सन्न विराजते इति योजना ॥ १० ॥

 व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।
 चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ११ ॥

 शतपत्रं-पद्मं तत्सदृशेक्षणं तवाननम् ॥ ११ ॥

 वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां, नरर्षभ !
 स्तुवन्तो नात्र दृश्यन्ते मङ्गलैस्वतमागधाः ॥ १२ ॥

 वन्द्यादयो मुहुर्व्याकृतचराः ॥ १२ ॥

 न ते [२]क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।
 मूर्ध्नि [३]मूर्धावसिक्तस्य [४]दधति स्म विधानतः ॥ १३ ॥

 क्षौद्रं च दधि चेति । तीर्थोदकामश्रितमिति शेषः । मूर्धावसिक्तस्य-शिरस्स्नातस्य ॥ १३ ॥

 न त्वां प्रकृतयस्सर्वाः श्रेणीमुख्याश्च [५]भूषिताः ।
 अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १४ ॥

 श्रेणीमुख्याः-परिषन्मुख्याः ॥ १४ ॥

 चतुर्भिवेंगसंपन्यैः काञ्चनभूषणैः ।
 मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १५ ॥


  1. वल्गु-सुन्दरम्.
  2. क्षौद्रं-मधु
  3. मूर्धा भिषिक्तस्य-ङ.
  4. न दधति स्म-नाभिषिञ्चन्ति स्म ।
  5. भूषितम्-ड.