पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
279
दृष्ट्वा सीतां शुचं सोढुं न शशाक रघूद्वहः

 शोकसन्तप्तत्वादिधर्मकं पतिं दृष्ट्वा वेपमाना सती तं पतिमपश्यत् ॥ ६ ॥

 तां दृष्ट्वा हि स धर्मात्मा न शशाक मनोगतम् ।
 तं शोकं राघवस्सोढुं ततो [१] विवृततां गतः ॥ ७ ॥

 सोढुमिति । गूढतयेति शेषः । ततः-तत एव हेतोः विवृततां-विवृताभिप्रायकतां गतः ॥ ७ ॥

 [२] विवर्णवदनं दृष्ट्वा तं प्रस्विन्न [३]ममर्षणम् ।
 आह दुःखाभिसन्तप्ता किमिदानीमिदं, प्रभो ! ॥ ८ ॥

 प्रस्विन्नं-तं प्राप्तदुःखजस्वेदम् ॥ ८ ॥

 अद्य बार्हस्पतः [४]श्रीमान् युक्तः पुष्योऽनुराघव !
 प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ ९॥

 बार्हस्पतः-बृहस्पतिदेवताकः । दित्यदित्यादिभ्यो ण्यलुक्छान्दसः । युक्तः-चन्द्रमसेति शेषः । युक्त इति तु प्रोच्यत इत्यन्वयः । केनेति । अद्य पुष्य, अद्याभिषेको रामस्येति द्विजैः उक्ते दुःखं केन-सन्तोषं विहायेत्यर्थः ॥ ९ ॥


  1. विवृततां-व्यक्तदुःखताम्-गो. यद्वा वैवर्ण्यमिति यावत्-'विवर्णवदनं'
    इत्युत्तर श्लोकानुसारात्
  2. यत्तु सीताया दु:खेन कथमेषा कालं नयिष्यतीति धिया दुःखित इति विवर्णवदनस्वादिकमिति-तदनुचितं-भगवति कथमपि दुःखासम्बन्धात् तादृशधियोप्यभावाच्च 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्यादावपि दुःखित इवेत्येवार्थ इति ममाभाति-ति.
  3. अमर्षणं शोकधारणाक्षमम् । अत एव प्रस्विन्नम्, 'पुष्येण' युक्तः चन्द्रेणेति शेषः-ति । 'बार्हस्पतः बृहस्पतिदैवत्यः । उक्तः अभिषेकार्हत्वेन युक्त इति पाठेऽभिषेकार्हः-गो.
  4. श्रीमानुक्तः-ङ.