पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
278
[अयोध्याकाण्डः
सीताप्रतिबोधनम्

 एवं मातरमनुमान्य सीतामध्यनुमानयितुं रामस्य प्रवृत्तिः । अभिवाद्येत्यादि । अतिशयेन धर्मवत् धर्मिष्ठं विन्मतोर्लुक्–इष्ठनादौ परतः ॥ १ ॥

 विराजयन् राजसुतो राजमार्गं नरैर्वृतम् ।
 हृदयान्याममन्थेव जनस्य गुणवत्तथा ॥ २ ॥

 आममन्थ-मन्थनं कृतवानिव ॥ २ ॥

 वैदेही चापि तत्सर्वं न शुश्राव [१]तपस्विनी ।
 तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥

 तत्सर्वं-राजवृत्तान्तम् । तदेव यौवराज्याभिषेचनं तस्याश्च हृदि स्थितमभूदिति शेषः ॥ ३ ॥

 देवकार्यं स्वयं कृत्वा [२]कृतज्ञा हृष्टचेतना ।
 अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ ४ ॥

 देवकार्यं-देवपूजाम् ॥ ४ ॥

 प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।
 प्रहृष्टजनसंपूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ ५ ॥
 अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।
 अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६॥


  1. तपस्विनी-रामाभिषेकार्थव्रतोपवासादिनियमविशिष्टा-गो । यद्वा तपस्विनी-अनुकम्पार्हा 'तपस्वी तापसे चानुकम्प्ये त्रिषु' इति मेदिनी । रामवनप्रस्थानमजानन्ती यौवराज्याभिषेकमेव चिन्तयन्ती सीता राममुखात्कथं तदुदन्तं श्रोष्यतीति कविरनुकम्पयैवमुक्तवान्.
  2. कृतज्ञा-देवैरेवं राज्यप्रदानोपकृतत्वेन कृतज्ञतया तत्पूजा-ति. कृतज्ञा-अभिषिक्तभर्तृविषये पट्टमहिषीभिः गन्धपुष्पादिना पूर्वकृतपादार्चनादिसमाचारज्ञा-गो. संप्रदायक्षा रामपादार्चनाय रामं प्रतीक्षते स्म-इति भावः ॥