मयार्चिता [१]देवगणाः शिवादयो
महर्षयो भूतमहासुरोरगाः ।
अभिप्रयातस्य वनं चिराय ते
हितानि [२]काङ्क्षन्तु दिशश्च, राघव ! ॥ ४५ ॥
इतीव चाश्रुप्रतिपूर्णलोचना
समाप्य च स्वस्त्ययनं यथाविधि ।
प्रदक्षिणं चैव चकार राघवं
पुनःपुनश्चापि [३]निरीक्ष्य सस्वजे ॥ ४६ ॥
तथा तु देव्या स कृतप्रदक्षिणः
निपीड्य मातुश्चरणौ पुनः पुनः ।
जगाम सीतानिलयं महायशाः
स राघवः प्रज्वलितः [४]स्वया श्रिया ॥ ४७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चविंशः सर्गः
प्रदक्षिणं चकारेति। रक्षार्थमेव तत् पुत्रस्य । देव्याः-मातुश्चरणौ पुनःपुनर्निपीड्य-अभिवाद्य । तव (४६) (?) मानः सर्गः ॥ ४७ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चविंशस्सर्गः
षड्विंशस्सर्गः
[ सीताप्रतिबोधनम् ]
अभिवाद्य च कौसल्यां राम[५]स्संप्रस्थितो वनम् ।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥