विशल्यकरणीं अन्वर्थनामिकां सिद्धार्था-दृष्टप्रत्ययिकां ओषधिं-मूलिकां गुलिकीकृत्य शुभां रक्षां चकार । तां मन्त्रैरभिमन्त्र्य अजाप च ॥ ३८ ॥
अभिप्रहृष्टेवेति । प्रस्थानस्य कार्यवशादेव केवलमनुमन्तव्यता । हर्षापारमार्थ्याद्योती इवशब्दः । तदेव प्रदर्श्यते-वाङ्मात्रेणेत्यादि । असंसज्जमानया-आन्तरखेद्गद्गदयेति यावत् ॥ ३९ ॥
[३]आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।
अवदत् पुत्र[४].मिष्टार्थो गच्छ, राम ! यथासुखम् ॥ ४० ॥
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।
पश्यामि त्वां सुखं, वत्स ! सुस्थितं राजवर्त्मनि ॥ ४१ ॥
प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना ।
द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥
भद्रासनगतं, राम ! वनवासादिहागतम् ।
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ ४३ ॥
मङ्गलैरुपसंपन्नो वनवासादिहागतः ।
वध्वा मम च नित्यं त्वं कामान् [५]संवर्ध याहि, भो ! ॥ ४४ ॥
मङ्गलैः-राजोचितवस्त्राभरणादिभिः । वध्वाः-सीतायाः । संवर्धं-वर्धयेति यावत् । याहि-गच्छ। भो इति निपातरूपमामन्त्रणार्थकम् ॥ ४४ ॥