मध्वित्यादि । स्वस्तिवाच्यं-स्वस्तिवाचनमुद्दिश्य । द्विजान् मध्वादिभिरुपलक्षितान् कृत्वा रामस्य वने स्वस्त्यस्त्वित्येवं वनेस्वस्त्ययनक्रियां वाचयामास-प्रार्थयामासेति कर्तरि लिट् ॥ ३० ॥
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ।
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ ३१ ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ३२ ॥
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ ३३ ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिर्मङ्गलं प्रादात् तत्त भवतु मङ्गलम् ॥ ३४ ॥
श्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गलं, राम ! तत्ते भवतु मङ्गलम् ॥ ३५ ॥
ऋतवस्सागरा द्वीपा वेदा लोका दिशश्र ते
मङ्गलानि, महाबाहो ! दिशन्तु [१] [२]शुभमङ्गलाः ॥ ३६ ॥
इति पुत्रस्य [३] शेषाश्च कृत्वा शिरसि भामिनी ।
गन्धैश्चापि समालभ्य राममायतलोचना ॥ ३७ ॥
शेषा इत्यक्षतानाम । समालभ्य-'समालम्भो विलेपनम्' ॥
[४]ओषधिं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ ३८ ॥