पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
274
[अयोध्याकाण्डः
कौसल्यास्वस्त्ययनम्

 पृथिव्यां भवाः पार्थिवाः । देवेभ्यस्सकाशाते स्वस्त्यस्त्विति योजना। ये च ते परिपन्थिनः तेभ्यः सोमादयः पान्तु ॥ २३ ॥

 अग्निर्वायुस्तथा धूमो मन्त्रावर्षिमुखच्च्युताः ।
 उपस्पर्शनकाले तु पान्तु त्वां, रघुनन्दन ! ॥ २४ ॥

 ऋषिमुखाच्च्युताः-निर्गताः, त्वया गृहीताश्चेति शेषः ॥ २४ ॥

 सर्वलोकप्रभुर्ब्रह्मा [१] भूतभर्ता तथर्षयः ।
 ये च शेषास्सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥ २५ ॥
 इति माल्यैस्सुरगणान् गन्धैश्चापि यशस्विनी ।
 स्तुतिभिश्चा [२]नुकूलाभिरानर्चायतलोचना ॥ २६ ॥
 ज्वलनं [३]समुपादाय ब्राह्मणेन महात्मना ।
 हावयामास विधिना राममङ्गलकारणात् ॥ २७ ॥
 घृतं श्वेतानि माल्यानि [४]समिधः श्वेतसर्षपान् ।
 उपसंपादयामास कौसल्या परमाङ्गना ॥ २८ ॥

 उपसंपादयामासेति । होमायेति शेषः ॥ २८ ॥

 उपाध्यायः स विधिना हुत्वा शान्ति मनामयम् ।
 हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ २९ ॥

 अनामयं-आरोग्यं, उद्दिश्येति शेषः । बाह्य-होमस्थानाद्बहिर्भवम् ॥ २९ ॥

 मधु दध्यक्षघृतैः [५]स्वस्तिवाच्यं द्विजांस्ततः ।
 वाचयामास रामस्य वनेस्वस्त्ययनक्रियाम् ॥ ३० ॥


  1. भूतकर्तृ-ब्रह्म-ति.
  2. नुरूपाभि-ङ.
  3. समुपाधाय-ड.
  4. समिधश्चैव-ङ.
  5. 'स्वस्तिवाच्यं' पुण्याहं वाचयित्वेत्यर्थः-गो.