पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५ सर्गः]
273
देवताः प्रार्थयामास राघवं रक्षितुं वने

 प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ।
 सरीसृपाश्च कीटाश्च मा भूवन्[१] [२]भवने तव ॥ १८ ॥

 प्लवगाः-वानराः । दंशाः-वनमक्षिकाः । तव भवने-गृहे । मा भूवन् मा स्तु ॥ १८ ॥

 महाद्विपाञ्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ।
 महिषाः शुङ्गिणो रौद्रा न ते द्रुह्यन्तु, पुत्रक ! ॥ १९ ॥

 ऋक्षाः-भल्लूकाः । न ते द्रुह्यन्तु, 'क्रुवद्रुह' इत्यादिना चतुर्थी ॥

 नृमांसभोजना रौद्रा ये चान्ये [३] सत्त्वजातयः ।
 मा च त्वां हिंसिषुः पुत्र ! मया संपूजितास्त्विह ॥ २० ॥
 [४]आगमास्ते शिवास्सन्तु सिध्यन्तु च पराक्रमाः ।
 [५]सर्वसंपत्तयो, राम ! स्वस्तिमान् गच्छ, पुत्रक ! ॥ २१ ॥

 गम्यन्त इति गमाः । आगमाः-सर्वे मार्गा इत्यर्थः । सर्वसम्पतयः-वनवासापेक्षिताः फलमूलादयः । सन्त्विति शेषः ॥ २१ ॥

 स्वस्ति [६]ते त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ।
 सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥ २२ ॥
 [७]गुरुस्सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ।
 पान्तु त्वामर्चिताः, राम ! दण्डकारण्यवासिनम् ॥ २३ ॥


  1. गहने वने-ड.
  2. गहने-वने तव पीडाकरा मा भूवन्नित्यर्थः
  3. सत्वजातयः-क्रूरजन्तवः-गो. 'सर्वजातियाः' सर्वजातीया इत्यर्थः-ति.
  4. शीघ्रमेव पुनरावृत्तिर्भवत्वित्यभिप्रायेण वा आगमाः इत्युकम्.
  5. सर्वसंपत्तये-ङ.
  6. आन्तरिक्षेभ्यः-अशन्यादिभ्यः पार्थिवेभ्यः-भूकम्पादिभ्यः इति वाऽर्थः
  7. शुक्रः शक्रः-ड.