पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
272
[अयोध्याकाण्डः
कौसल्यास्वस्त्ययनम्

 स्कन्दश्च भगवान् देवः [१]सोमश्च सबृहस्पतिः ।
 सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ ११ ॥
 याश्चापि सर्वतः सिद्धाः दिशश्च सदिमीश्वराः ।
 स्तुता मया वने तस्मिन् पान्तु त्वां, पुत्र ! नित्यशः ॥ १२ ॥
 शैलास्सर्वे समुद्राश्च राजा वरुण एव च ।
 द्यौरन्तरिक्षं पृथिवी [२]नद्यस्सर्वास्तथैव च ॥ १३ ॥
 नक्षत्राणि च सर्वाणि ग्रहाश्च [३]सहदेवताः ।
 अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ॥ १४ ॥

 ग्रहाः-कुजादयः । [४]सहदेवताः-तत्तदधिदेवतासहिताः ॥ १४ ॥

 [५]ऋतवश्चैव षट् पुण्या मासास्संवत्सरास्तथा ।
 कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ १५ ॥
 ऋतवश्चैवेत्यादौ पुनः ऋत्वाद्यधिदेवताग्रहणमिति न दोषः ॥
 महावने विचरतो मुनिवेषस्य धीमतः ।
 तवादित्याश्च दैत्याच भवन्तु सुखदास्सदा ॥ १६ ॥
 राक्षसानां पिशाचानां [६]रौद्राणां क्रूरकर्मणाम् ।
 [७]क्रव्यादानां च सर्वेषां मा भूत्, पुत्रक ! ते भयम् ॥ १७॥

 सर्वेषामिति । सर्वेभ्य इति यावत् ॥ १७ ॥


  1. सोमश्चेन्द्रो बृह-ङ.
  2. वायुश्च सचराचरः-ड.
  3. ग्रहदेवताः-ङ.
  4. शुभदेवताः-घ.
  5. पुनरुक्तिरत्र पुत्रप्रेमगरवश्यान्न दोषाय-ति.
  6. दैस्यानां-ङ.
  7. सर्वक्रव्यादसम्बन्धिभयंसंबन्धसामान्ये षष्ठी-ति. गो.