पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५ सर्गः]
271
निगृह्य शोकं रामाय चक्रे स्वस्त्ययनं च सा

 यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ।
 तानि त्वामभिरक्षन्तु गुणैस्समुदितं सदा ॥ ५ ॥
 पितृशुश्रूषया, पुत्र ! मातृशुश्रूषया तथा ।
 सत्येन च, महाबाहो ! चिरं जीवाभिरक्षितः ॥ ६ ॥
 समित्कुशपवित्राणि वेद्यचायतनानि च ।
 स्थण्डिलानि [१]विचित्राणि शैला वृक्षाः क्षुपा हृदाः ॥ ७ ॥
 पतङ्गाः पन्नगास्सिंहाः त्वां रक्षन्तु, नरोत्तम !

 समित्कुशादौ तदधिष्ठात्र्यो देवता उपलक्ष्यन्ते । क्षुपाः-ह्रस्वशाखास्तरवः ॥ ७ ॥

 स्वस्ति साध्याश्च [२]विश्वे च मरुतश्च महर्षयः ।
 स्वस्ति[३] धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥ ८ ॥

 स्वस्ति–कुर्वन्त्वित्यग्रेण सम्बन्धः । धाता-आधार[४]धर्मप्रधानो भगवान्विराड्विष्णुः । विधाता- स्रष्टा, स एव सर्गविधायकः प्राजापत्यात्मा । [५]पूषा भगोऽर्यमेति रेवत्यादिनक्षत्राधिष्ठातृदेवताः ॥८॥

 लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ।
 ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः ॥ ९ ॥
 दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ।
 [६]स्मृतिधृतिश्च धर्मश्च पातुं त्वां, पुत्र ! सर्वतः ॥ १० ॥

 स्मृतिधृती-ध्यानसमाधिलक्षणयोगौ ॥ १० ॥


  1. च विप्राणां-ङ.
  2. विश्वे-विश्वेदेवाः
  3. धातेत्यादौ तु 'करोतु' इति एकवचनान्ततया विपरिणामः। साध्या:-देवताविशेषाः
  4. कर्म-घ.
  5. पूवादिशब्दा: द्वादशसंख्याकादित्यावान्तरभेदवाचकाः-गो.
  6. श्रुतिः स्मृतिश्च-ङ. च.