पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
270
[अयोध्याकाण्डः
कौसल्यास्वस्त्ययनम्

 स्वस्त्ययनं-मङ्गलमभिकांक्षितुं शीलमस्त्यस्या इति तथा । दल (३८) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्विंशः सर्गः


पञ्चविंशः सर्गः

[कौसल्यास्वस्त्ययनम्]

 साऽपनीय [१]समायासमुपस्पृश्य जलं [२] शुचिः ।
 चकार माता रामस्य मङ्गळानि मनस्विनी ॥ १ ॥

 'स्वस्त्ययनाभिकाङ्क्षिणी बभूव' इत्युक्तम् । तामेव कांक्षां कौसल्या पूरयति-साऽपनीयेत्यादि । समायासः-शोकः । मङ्गलानि-मङ्गलवचनानि ॥ १ ॥

 [३] शक्यसे वारयितुं गच्छेदानीं, रघूत्तम !
 शीघ्रं च विनिवर्तस्व वर्तस्व च सतां [४]क्रमे ॥ २ ॥

 क्रम्यत इति क्रमः-मार्गः ॥ २ ॥

 यं पालयसि धर्म त्वं [५]प्रीत्या च नियमेन च ।
 स वै, राघवशार्दूल ! धर्मस्त्वामभिरक्षतु ॥ ३ ॥
 येभ्यः प्रणमसे, पुत्र ! [६] [७]चैत्येष्वायतनेषु च ।
 ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ४ ॥

 ते चेति । देवा इति शेषः ॥ ४ ॥


  1. तमायास-ङ. च.
  2. शुचि-ङ. च.
  3. शक्यते-ङ. च.
  4. पथि-ङ.
  5. धृत्या-ङ.
  6. चेत्येषु चतुष्पथेषु-अग्निशालासु वा स्थण्डिलानि-देवपूजास्थलानि-गो.
  7. देवेष्वा-ङ. च.