पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४ सर्गः]
269
अन्ततस्त्वमुमेने तं सान्विता बहुधा तु सा

 प्रत्यागते महाभागे कृतार्थे चरितव्रते ।
 [१]पितुरानृण्यतां प्राप्ते [२]त्वयि लप्स्ये परं सुखम् ॥ ३४ ॥
 कृतान्तस्य गतिः, पुत्र! दुर्विभाव्या सदा भुवि ।
 यत्त्वा सञ्चोदयति मे वच आच्छिद्य, राघव ! ॥ ३५ ॥

 मे वच आच्छिद्य-निराकृत्य स्वा-स्वां सञ्चोदयति यत्-वनायेति शेषः, अतो दुर्विभाव्या ॥ ३५ ॥

 गच्छेदानीं, महाबाहो ! क्षेमेण पुनरागतः ।
 नन्दयिष्यसि मां, पुत्र ! साम्ना [३]शुक्लेन चारुणा ॥ ३६ ॥

 शुक्लेन-निर्मलेन-नीरागदोषेण । चारुणा-मनोहरेण । साम्नासान्त्ववचनेन ॥ ३६ ॥

 [४]अपीदानीं स कालः स्याद्वनात्प्रत्यागतं पुनः ।
 यत्त्वां, पुत्रक! पश्येयं जटावल्कलधारिणम् ॥ ३७ ॥

 तथा हि रामं वनवास निश्चितं
  समक्ष्य देवी परमेण चेतसा ।
 उवाच रामं शुभलक्षणं वचः
  बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्विशः सर्गः



  1. पितुर्विषय इत्यर्थः । आनृण्यतां-स्वार्थे ष्यञ् । अनृणतामित्यर्थः
  2. स्वपिष्ये परमं सुखं-ङ.
  3. वाक्येन-ड., श्लक्ष्णेन-ड. च.
  4. क्षण-
    मात्रमप्यदर्शनासहिष्णुत्वात् प्रत्यागमनकाल इदानीमेव संभवेदिति प्रार्थयते–अपीति-गो.