पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
268
[अयोध्याकाण्डः
कोसल्यासमाश्वासः

 [१]अग्निकार्येषु च सदा सुमनोभिश्च देवताः ।
 पूज्यास्ते मत्कृते, देवि ! ब्राह्मणाश्चैव सुव्रताः ॥ २८ ॥

 तर्हि कर्मान्तरं न कर्तव्यम् ? इत्यत्र तदपि कर्तव्यमेव, ऐहिकाभ्युदयार्थमित्याह–अग्नीत्यादि । सदा तत्परा भवेति शेषः ॥ २८ ॥

 एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी ।
 नियता नियताहारा भर्तुशुश्रूषणे रता ॥ २९ ॥
 प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।
 यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ ३० ॥

 काममिति । ऐहिकविषयजसुखमिति यावत् । तस्य पुत्र-मात्रासाध्यत्वादाहयदीत्यादि ॥ ३० ॥

 एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।
 कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ ३१ ॥
 गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक !
 विनिवर्तयितुं वीर ! नूनं [२]कालो कालः-इष्ट-वियोगादिजनकः-ति. दुरत्ययः ॥ ३२ ॥

 सुकृतां-सुष्टु कृतनिश्चयाम् । कालः-कालनिमित्तकेष्टवियोगादिरित्यर्थः ॥ ३२ ॥

 गच्छ, पुत्र ! त्वमेकाग्रो भद्रं तेऽस्तु सदा, विभो !
 पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ॥ ३३ ॥


  1. तूष्णीमवस्थाने एनां दुःखमाक्रमिष्यतीति थिया दुःखविच्छेदनार्थ कालक्षेपसाधनं विधत्ते–अग्नीति । अग्निकार्येषुशान्तिकपौष्टिकहोमेषु-गो.
  2. कालः-इष्ट-वियोगादिजनकः-ति.