पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४ सर्गः]
267
शुश्रूष त्ममिह स्थित्वा भर्तारं भृशदुःखितम्

 यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।
 श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ २३ ॥
 [१]दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ।
 राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ २४ ॥

 एनं-राजानम् ॥ २४ ॥

 व्रतोपवासनिरता या नारी परमोत्तमा ।
 भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ॥ २५ ॥
 भर्तृशुश्रूषया नारी लभते [२]स्वर्गमुत्तमम् ।

 द्विजमात्रस्य गायत्रीवत् स्त्रिया भर्तृशुश्रूषणस्यैव नित्यत्वात् [३]नित्याकृतिजप्रत्यवायानर्थमनित्यकृतिस्साङ्गापि परिहर्तुं न शक्नोतीत्याहव्रतेत्यादि ॥ २५ ॥

 अथ या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ २६ ॥
 शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।
 एष धर्मः [४]स्त्रिया नित्यो [५]लोके वेदे श्रुतः स्मृतः ॥ २७॥

 अथ नित्यानुष्ठाने सत्यनित्याकरणे न तु लोकक्षय इत्याह- अथ येत्यादि । निर्नमस्कारा-भर्तृव्यतिरिक्तस्य यस्य कस्यापि नमस्काराद्युपचाररहितापि-विशिष्य कुलदैवतब्रह्मादिदेवपूजारहिता च, अथापि भर्तृशुश्रूषां कुर्वीत यदि न तस्या उक्तानित्या करणेन काचित्क्षतिः । अत एष एव स्त्रिया नित्यः श्रुतः-श्रुतिभिः स्मृतः-स्मृतिभिश्चेत्यर्थः ॥


  1. दारुणश्चाव्ययः-ङ.
  2. गतिमुत्तमाम्-ङ.
  3. नित्याकरणजन्येत्यर्थः
  4. 'पुरादृष्टः'-ड. पुरातनलोकाचारसिद्ध इत्यर्थः-गो.
  5. वेदे श्रुतः, लोके स्मृतश्च । वेदमनधीयाना अपि जानन्तीत्यर्थः ।