पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
266
[अयोध्याकाण्डः
कौसल्यासमाश्वासः

 आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।
 [१]नय मामपि काकुत्स्थ ! वनं वन्यां मृगीमिव ॥ १९ ॥

 यदि ते गमने बुद्धिः कृता पितुरपेक्षया । अङ्गीकृतवनवासापि सपत्नीदुःखस्मरणात् पुनश्च रामानुगमनमभिलषति–आसामित्यादि । वन्यां-वने भवाम् ॥ १९ ॥

 तां तथा रुदतीं रामोऽ[२]रुदन् वचनमब्रवीत् ।
 जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च ॥ २० ॥
 भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ।

 अरुदन्-रुदन्तीमपि तां दृष्ट्वा स्वयमरुदन्नित्यर्थः । [३]रोदने तु कातर्यप्राकट्यतो मे मातुः पुनरप्यनुगमनप्रत्याशाप्रसङ्ग इति भावः ॥  [४]न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता ॥ २१ ॥

 धीमतेति । सनाथा इति शेषः ॥ २१ ॥

 भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।
 भवतीमनुवर्तेत स हि धर्मरतस्सदा ॥ २२ ॥

 अथ सपत्नीमध्यवासो दुष्कर इति यदुक्तं तत्र परिहारमाह-भरत इत्यादि । भवतीमनुवर्तेतेति । अतः कैकेयीकोपोऽकिश्चित्कर इत्याशयः ॥ २२ ॥


  1. यथा वन्या मृगी वने सन्तुष्टा वर्तते-तथाहमपि वर्ते, न भवन्तं केशयिष्यामीति भावः । पितुरपेक्षया-पितुरिच्छया-गो.
  2. रुदन्-'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तगुणविशिष्टोऽपि रामो मातृव्यसनं दृष्ट्वा पितृवचनपरिपालन रूपधर्मविघ्नभयाद्धैर्येण स्थितवान्-गो. अरुदन्-शि. ति.
  3. रोदनेन-ट.
  4. राज्ञा अनाथाः-राजरूपनाथरहिता इति वाऽर्थः,