पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४ सर्गः]
265
सर्वैरपि परित्यक्तो जीविष्यति कथं नृपः ?

 यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः ।
 शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातनः ॥ १३ ॥

 यदेवमतः–यावदित्यादि ॥ १३ ॥

 एवमुक्ता तु रामेण कौसल्या शुभदर्शन ।
 तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १४ ॥
 एवमुक्तस्तु वचनं रामो धर्मभृतां वरः ।
 भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १५ ॥

 एवं वचनमुक्तः–भर्तृशुश्रूषाङ्गीकारवचनमुक्तः, कर्मणि निष्ठा ॥ १५ ॥

 मया चैव भवत्या च कर्तव्यं वचनं पितुः ।
 [१]राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १६ ॥

 उभाभ्यामवश्यकर्तव्यमित्यत्र क्रमाद्धेतुः-भर्ता गुरुरितिभर्ता-भरणकर्ता ।[२] ॥ १६ ॥

 [३]इदानीं तु महारण्ये विहृत्य नव पञ्च च ।
 वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १७ ॥
 एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ।
 उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १८ ॥

 पितृशुश्रूषणानन्तरं त्वच्छुश्रूषणमपि करोमीत्याह-इदानीमित्यादि । विहृत्येत्यनेन वनवासो मृगयावत्क्रीडैव मे इति दर्शितम् ॥


  1. स खलु' इत्यध्याहार्यम्
  2. एवञ्च सर्वे सर्वस्याप्यन्वेति
  3. इमानि ङ. इमानीस्यत्वज्ञापनाय-गो.