पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
264
[अयोध्याकाण्डः
कौसल्यासमाश्वासः

 शोकाग्निः प्रधक्ष्यतीति वक्ष्यति । तस्यामिसमाधिमाह-अयं तु मामित्यादि । आत्मभवः-स्वमनसस्सम्भूतः । विलापदुःखैः समिधः-समिन्धनं यस्य स तथा, 'घञर्थे कविधानं' इति कः । रुदिताश्रूण्येव हुताः-कृतहोमाः आहुतयो यस्य स तथा । 'अन्येषामपि दृश्यते' इति दीर्घः श्रमेण । तवागमनचिन्ताजनितनिश्वासरूपेणायासेन-प्रयासेन पुनःपुनस्सन्धुक्षणरूपेण संभवः-वृद्धिर्यस्य स तथा ॥ ८ ॥

 कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति ।
 अहं त्वाऽनुगमिष्यामि, पुत्र ! यत्र गमिष्यसि ॥ ९ ॥
 यथानिगदितं मात्रा तद्वाक्यं पुरुषर्षभः ।
 श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १० ॥

 यथानिगदितं-येन प्रकारेण निगदितं तथा तद्वाक्यं श्रुत्वा-आत्मानुगमनं श्रुत्वेति यावत् ॥ १० ॥

 कैकेय्या वञ्चितो राजा, मयि चारण्यमाश्रिते ।
 भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११ ॥

 वञ्चित इति । परित्यक्त इति यावत् । न वर्तयिष्यति-न जीविष्यतीति यावत् ॥ ११ ॥

 भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः ।
 स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः ॥ १२ ॥

[१]केवलं नृशंसः-क्रौर्यमात्रम् । न तेनेहामुत्र च सुखमित्यर्थः । मनसाऽपि न कर्तव्यः-न चिन्तनीय इति यावत् । तत्र हेतुः-विगर्हित इति ॥ १२ ॥


  1. तथा च नृशंसपदं भावप्रधानपरमिति भावः । यद्वा परित्यागरूपक्रियैव नृशंसेत्युच्यते.