पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४ सर्गः]
263
अथानुगन्तुमिच्छन्ती कौसल्यां राघवोऽब्रवीत्

 यस्य भृत्याश्च [१]दासाश्च मृष्टान्यन्नानि भुञ्जते ।
 कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३ ॥

 भृत्याः-मन्त्रिमुख्याः-भर्तुं योग्याः । दासाः-भुजिष्याः ॥

 [२]क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् ।
 गुणवान् दयितो [३]राज्ञा राघवो यद्विवास्यते ॥ ४ ॥

 विवास्यत इति यत् तच्च कः श्रद्दधेत्-इत्यन्वयः । परमार्थतो विवासं श्रुत्वा-श्रवणं प्राप्य तु कस्य वा भयं न भवेत्-स्वस्त्रीपुत्रादिस्नेहशैथिल्यस्मृतिशङ्काजनितम् ॥ ४ ॥

 नूनं तु बलवान् लोके कृतान्तस्सर्वमादिशन् ।
 लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ ५ ॥

 सर्वमादिशन्-सर्वं दुःखं प्रयच्छन् । लोके-कर्मलेोके । यत्रयस्मात् ॥ ५ ॥

 अयं तु मामात्मभवः तवादर्शनमारुतः ।
 [४]विलांपदुःखसमिधः रुदिताश्रुहुताहुतिः ॥ ६ ॥
 चिन्ताबाष्पमहाधूमस्तवा[५]गमनचिन्तजः ।
 कर्शयित्वा भृशं, पुत्र ! निश्वासायाससंभवः ॥ ७ ॥
 त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।
 प्रधक्ष्यति यथा कक्षं [६]चित्रभानुर्हिमात्यये ॥ ८ ॥


  1. दाराश्च-ङ.
  2. निरपराधिनः पुत्रस्यैव विवासने वयं कुत्रेति भयं वा विवक्षितम् अत्र 'को यत्तच्छ्रद्दवेत्' इति पाठः व्याख्यासम्मतः प्रतिभाति.
  3. राशो-ङ.
  4. विवास-ङ.
  5. दर्शनचित्तजः-ड.
  6. चित्रभानुः वन्योऽग्निरिव-गो.