पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
262
[अयोध्याकाण्डः
कोसल्यासमाश्वासः

 एवं लक्ष्मणसंरम्भमुक्ता-भगवता 'नायमेतस्य कालः' इत्युपदिश्यत इत्याह-विसृज्येत्यादि । अन्तर्भावितणिः । बाष्पं विसर्जयित्वा-लक्ष्मणस्य चक्षुषी परिमृज्येति यावत्। पित्रोर्वचने व्यवस्थितं-प्रतिष्ठितं मां निबोध । हे सौम्य ! एष हि सत्पथः-समीचीनः पन्थाः । 'जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता' इति न्यायादित्याशयः । नव (४०) मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयोविंशः सर्गः


चतुर्विंशः सर्गः

[कौसल्यासमाश्वासः]

 तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने ।
 कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ १ ॥

 एवं धर्म्यं राघवस्य निश्चयं दृष्ट्वा 'धर्मो जयति नाधर्मः' इति मत्यालम्बनेन कौसल्याया रामप्रवासानुमतिः । तं समीक्ष्येत्यादि । निर्देशः-निवेश इति यावत् ॥ १ ॥

 अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।
 मयि जातो दशरथात् कथ [१]मुञ्छेन वर्तयेत् ॥ २ ॥

 वर्तयेत्-जीवेत् । भवानिति शेषः[२] ॥ २ ॥


  1. उञ्छो नाम दैवात्प्रकीर्णानां धान्यानां ग्रहणम्
  2. आत्मानं प्रत्येवेदं वचनं वा कौसल्यायाः.