पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
261
इति ब्रुवन्तं सौमित्रिं सान्त्वयामास राघवः

 अध मेऽस्त्रप्रभावस्य-अस्त्रसामर्थस्य प्रभावः-महिमा, हे प्रभो ! तव प्रभुत्वं कर्तुं-संपादयितुं त्वदन्यस्य अप्रभुतामपि संपादयितुं राज्ञः प्रभुतां प्रतरिष्यति प्लावयिष्यति-नाशयिष्यतीति यावत् ॥ ३७ ॥

 [१]अद्य चन्दनसारस्य केयूरामोक्षणस्य च ॥ ३८ ॥
 वसूनां च विमोक्षस्य सुहृदां पालनस्य च ।
 अनुरूपाविमौ बाहू, राम ! कर्म करिष्यतः ॥ ३९ ॥
 अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ।

 चन्दनसारस्येति । कल्याणप्रयोजनचन्दनसारानुलेपनस्येत्यर्थः । अनुरुपौ-अर्हौ । हे राम ! तेऽभिषेचन(क)विघ्नस्य कर्तॄणां-निवारणविषये कर्म करिष्यतः ॥ ३९ ॥

 ब्रवीहि कोऽद्यैव मया वियुज्यतां
  तवासुहृत्प्राणयशस्सुहृज्जनैः ।
 यथा तवेयं वसुधा वशे भवेत्
  तथैव मां शाधि तवास्मि किङ्करः ॥ ३९ ॥

 ब्रवीहीति । 'सेर्ह्यपिच्च' 'बहुलं छन्दसि' इति पित्वस्य च विद्यमानत्वात् 'ब्रुव ईट्' इतीट् ॥ ३१ ॥

 [२][३]विसृज्य बाष्पं परिमृज्य चक्षुषी
  स लक्ष्मणं राघववंश[४]वर्धनः ।
 उवाच [५]पित्रोर्वचने व्यवस्थितं
  निबोध मामेष हि, सौम्य ! सत्पथः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोविंशः सर्गः



  1. इष्टसाधनं यथा मे बाहुः तथाऽनिष्टनिवारणेऽपि क्षम एवेति भावः
  2. बाष्पं विसृज्य-त्यक्त्वा विसृष्टबाष्पं च चक्षुः परिमृज्य मां निबोधेत्युवाचेति वाऽन्वयः.
  3. विमृज्य बाष्पं परिसान्त्व्य चासकृत्'-ङ.
  4. वर्धनम्-ङ
  5. पित्र्ये वचने-ङ्.