पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
260
[अयोध्याकाण्डः
लक्ष्मणाक्रोशः

 खड्गधाराहता मेऽद्य दीप्यमाना [१]इवाद्रयः ॥ ३४ ॥
 पतिष्यन्ति [२]द्विधा भूमौ मेघा इव सविद्युतः ।

 खड्गधारया हताः-छिन्नाः रक्तधारया दीप्यमानाः अत एव सविद्युतो मेघा इव स्थिता-हस्त्यादयो भूमौ द्विधा पतिष्यन्ति । सम्यक्कृत्तत्वादित्यर्थः ॥ ३४ ॥

 [३]बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ॥ ३५ ॥
 कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ।

 बद्धगोधाङ्गुलित्राणादिधर्मके मयि स्थिते सति मत्पुरतः पुरुषाणां मध्ये कथं पुरुषमानी-प्रतिभटपुरुषमानी स्यात् । न कथमपि समस्ति । सर्वथैवास्मदपेक्षया [४]सर्वप्रतिभटस्य दुर्लभस्वादित्यर्थः ॥ ३५ ॥

 [५]बहुभिश्चै[६]कमर्त्यस्य नैकेन च बहुञ्जनान् ॥ ३६॥
 विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु ।

 बहुभिरित्यादि । एकमर्त्यस्य-एकमनुष्यस्य संहारो बहुभिर्बाणैर्न क्रियते ; अपि त्वेकेनैव बाणेन बहुञ्जनान् संहरामि । एवं प्रकारेण मदीयान् बाणान् नृवाजिगजमर्मसु विनियोक्ष्यामि ॥ ३६ ॥

 अद्य मेऽस्त्र[७]प्रभावस्य प्रभावः [८]प्रतरिष्यति ॥ ३७॥
 राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो !


  1. इवाग्नयः-ङ.
  2. द्विपाः-ङ.
  3. गोधा-ज्याघातावरणं-हस्तकवचः । अङ्गुलित्राणं-ज्याकर्षणसाधनं-अङ्गुलीकवचः.
  4. सर्वप्रतिबलस्य-घ.
  5. बहुभिः बाणैरेक शूरमत्यस्यन्-प्रकर्षेण क्षिपन्, एकेन बाणेन बहून् क्षुद्रा नत्यस्यन्-गो.
  6. कमत्यस्यन्-ङ.
  7. प्रतापस्य-ङ.
  8. प्रभविष्यति-ङ.