पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
259
राज्यं च तव रक्षेयं वारयेयं तथा रिपून्

 त्वदिष्टाचरणप्रयोजनकमेव मम बाहुवीर्यादिकमित्याह-[१]न म इत्यादि । असिः-खड्गः । आबन्धनार्थाय-आराद्बध्यत इत्याबन्धनमलङ्कारः । स्तम्भः–काष्ठादिकिञ्चित्पदार्थस्याधःपतनस्तम्भनम्, तस्य हेतवस्तथा ॥ ३१ ॥

 न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम[२]

 न चेत्यादि । यश्शत्रुर्मम मतः-मद्बाहुबलानुरूपो मतः स्यात्-न च तादृशं पश्यामि । तत्प्राप्तिमहमत्यर्थं कामये ॥

 असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ॥ ३२ ॥
 प्रगृहीतेन [३]वै शत्रुं वज्रिणं वा न कल्पये ।

 विद्युच्चलितेति । निष्ठायाः परनिपातः आहिताग्न्यादित्वात्, चलितविद्युत्समानतेजस्केनेति यावत् । प्रगृहीतेन तेनानेन खड्गेन छेदनानुरूपं वज्रिणमपि न कल्पये-न कमपि संभावयामीत्यर्थः ॥

 खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्वरा च मे ॥ ३३ ॥
 [४]हस्त्यश्व[५]नरहस्तोरुशिरोभिर्भविता मही ।

 हस्त्यादीनां क्रमाद्धस्तादिभिः सम्बन्धः । भवितेति लुट् ॥


  1. अन्वयक्रमाभिप्रायेणैवं प्रतीकं धृतं स्यात्.
  2. तमहं न कामये-तस्य स्थितिं न कामये-गो.
  3. कं-ङ.
  4. अत्रैकवद्भावाभावः आर्षः-सत्य. परन्तु हस्तादीनां प्राण्यङ्गत्वेऽपि हस्त्यश्वादीनां प्राण्यङ्गत्वाभावाद्वा नैकवद्भावः । न च तेषामपि सेनाङ्गत्वमस्तीति वाच्यम् । अथापि सेनाङ्गप्राण्यङ्गयोरेकवद्भावासंभव एव । किञ्चात्रोक्तानां हस्त्यादीनां सेनाङ्गत्व-निर्बन्धोऽपि नास्तीत्यपि द्रष्टव्यम् । व्याख्योक्तयथासङ्ख्यान्वयस्त्वार्थिकः ।
  5. रथि-ङ.