पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
258
[अयोध्याकाण्डः
लक्ष्मणाक्रोशः

 अनेकाग्रे-कामवशादुक्तवानप्रस्थधर्मानुष्ठानैकाग्र्यरहिते राजनि स धर्मो ज्येष्ठराज्याभिषेकपूर्ववनवासधर्मो न चेत्, हे धर्मात्मन् ! राज्यबिभ्रमशङ्कयैव-कुलदूषणकरकनिष्ठराज्यकरणरूपविपर्ययप्रसङ्गादेव- तत्परिहारार्थमेव केवलं-आत्मनि राज्यकामत्वं- राज्यरूपभोग्यसम्बन्ध-वत्त्वमिच्छसि–अङ्गीकरोषि चेत्, तावन्मात्रमेव त्वया संपाद्यं प्रजारक्षणक्लेशो न त्वयाऽनुभवितव्यः, वेला सागरमिव तव राज्यमहं रक्षेयं ;अन्यथाऽहं वीरलोकभाक् मा भूवमिति प्रतिजाने च । अत्र यद्वा भट्टः इतस्ततः कुड्येन शिरस्ताडयति । तत्र न किञ्चिदपि सङ्गतं पश्यामः ॥

 [१]मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतोऽभव ॥ २९ ॥

 यदेवं अतः-मङ्गलैः-अभिषेकसाधनैः अभिषिञ्चस्वात्मानम् । तत्र त्वं-तत्रैवाभिषेकव्यापारे व्यापृतः-व्यापृतचित्तो भव ॥ २९ ॥

 अहमेको महीपालानलं वारयितुं बलात् ।

 भवत्प्रतिबन्धनिरासेऽहं तिष्ठामीत्याह-अहमित्यादि । अलं-समर्थोऽस्मि ॥

 न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ॥ ३० ॥
 [२]नासिराबन्धनार्थाय न शराः [३].स्तम्भहेतवः ।
 अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम् ॥ ३१ ॥


  1. मङ्गलैः-मङ्गलद्रव्ययुक्तैर्जलैः-गो.
  2. आबन्धनार्थाय-भूषणतया कट्यां बन्धनरूपप्रयोजनाय-गो.
  3. स्तम्भहेतवः केवलं लक्ष्यभूतस्तम्भहेतवः । तूण्यां
    स्थापनहेतवः इति वा-गो.-स्तम्भहेतवः समूहीभूय स्तम्भनिर्मापकाः-शि