पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
257
अहमद्यैव तद्दैवं पौरुषेण निवर्तये

 ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्य मनन्तरम् ॥ २५ ॥
 [१]आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ।

 अथ वनवासस्योचितं कालं स्वयमेवाह-ऊर्ध्वमित्यादि । अस्यैव विवरणं—–वर्षसहस्रान्त इति । [२]पालनं-पाल्यं, भावे घञ्, स्वार्थे यत्, प्रजापालनानन्तरमिति यावत्, तत्कृत्वा यथाप्राप्तकालं त्वयि वनवासं गते सति ततःपरं आर्यस्य भवतः पुत्राः प्रजा[३]पाल्यं करिष्यन्ति ॥ २५ ॥

 पूर्वराजर्षिवृत्त्या हि वनवासो [४]विधीयते ॥ २६ ॥
 प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ।

 स्वोक्तवनवासोऽशेषसम्मत इत्याह-पूर्वेत्यादि । पुत्रवत्प्रजानां परिपालननिमित्तं प्रजाः पुत्रेषु निक्षिप्य पश्चाद्धि वनवासः पूर्वराजर्षिवृत्त्या-आचारेण [५]विधीयते ॥ २६ ॥

 [६]स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ॥ २७ ॥
 नैवमिच्छसि, धर्मात्मन् ! [७]राज्यकामत्वमात्मनि ।
 प्रतिजाने च ते, वीर ! मा भूवं वीरलोकभाक् ॥ २८ ॥
 राज्यं च तव रक्षेयं अहं वेलेव सागरम् ।


  1. तदानीमप्यन्येषां नावकाश इति भावः-ति.
  2. अत्र पाल्यमित्येव व्याख्येयं पदम् । पालशब्दात् घञन्तात् स्वार्थे यम्प्रत्यये पाल्यमिति भावः.
  3. पालनं-घ.
  4. ऽभीधीयते-ङ.
  5. स्तूयते-घ.
  6. न चेद्राज-ङ.
  7. 'राज्यं रामत्वमात्मनि' पाठान्तरं-हे राम ! त्वं राजनि-दशरथे एवमनेकाग्रे चलचित्ते-अव्यव-स्थितचित्ते सति, राज्यविभ्रमशङ्कया-राज्यस्य विविधचलनशङ्कया आत्मनि राज्यं नेच्छसि चेत्–(तथा न शङ्कितव्यं-यतोऽहं तव राज्यं सुस्थिरं रक्षेयम् । )-गो.
    'राजन्यस्मत्प्रतिकूले सति कथं मया तत्कर्तुं शक्यम् । यदि राज्ञोऽनभिमतं कुर्यां तदा प्रजाक्षोभोऽपि स्याद्वा' इति न शङ्कनीयमिति भावः