पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
256
[अयोध्याकाण्डः
लक्ष्मणाक्रोशः

 अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ॥ २० ॥
 प्रधावितमहं दैवं पौरुषेण निवर्तये ।

 अत्यङ्कुशं-अतिक्रमिताङ्कुशव्यापारं उद्दामं-[१]उत्कृष्टदामबन्धं, अत एव प्रधावितं-दुर्निवारस्वच्छन्दगमनं गजमिव दैवमपि पौरुषेण पुरुषगतज्ञानबलादिसामर्थ्येन निवर्तये-निरोधयामि ॥ २० ॥

 लोकपालास्समस्ता ये नाद्य रामाभिषेचनम् ॥ २१ ॥
 न च कृत्स्नास्त्रयो लोका विहन्युः किंपुनः पिता ।

 दैवनिवर्तनं स्वपौरुषस्येषत्करमित्याह-लोकेत्यादि ॥ २१ ॥

 यैर्विवासस्तवारण्ये मिथो, राजन् ! समर्थितः ॥ २२ ॥
 अरण्ये ते विवत्स्यन्ति चतुर्दशसमास्तथा ।

 राजन्नित्यनेन स्वपौरुषेण राजत्वस्य सिद्धवत्कृत्यवादः ॥ २२ ॥

 अहं तदाशां छेत्स्यामि पितुस्तस्याश्च, या तव ॥ २३ ॥
 अभिषेकविघातेन पुत्रराज्याय वर्तते ।

 पुत्रराज्याय-पुत्रराज्यप्रापणार्थम् ॥ २३ ॥

 [२]त्वद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ॥ २४ ॥
 प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ।

 त्वद्बलेन-त्वत्पक्षभूतेन मया विरुद्धाय-कृतविरोधाय ममोग्रं पौरुषं यथा दुःखाय प्रभविष्यति, तथा तस्य दैवबलं तन्निराससमर्थं न स्यात् ॥ २४ ॥


  1. उत्कृष्टः-आकृष्टः,छिन्न इत्यर्थः.
  2. 'मद्बलेन'-गो. मम बलेनेत्यर्थः