पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
255
वीराः संभावितात्मानो न दैवं पर्युपासते

 [१]विक्लबो वीर्यहीनो यः स दैवमनुवर्तते ॥ १६ ॥
 वीरास्संभावितात्मानो न दैवं पर्युपासते ।

 इदानीं त्वादृशस्य दैवावलम्बनवादो न युक्त इत्याह-विक्लब इत्यादि । संभावितात्मानः-सर्वलोकोपश्लाघनीययशोवीर्यादिमन्त इति यावत् ॥ १६ ॥

 न दैवेन विपन्नार्थः पुरुषस्सोऽवसीदति ।
 दैवं पुरुषकारेण यस्समर्थः प्रबाधितुम् ॥ १७ ॥

 विपन्नार्थः-हतप्रयोजनः ॥ १७ ॥

 द्रक्ष्यन्ति त्वद्य देवस्य पौरुषं पुरुषस्य च ॥ १८ ॥
 दैवमानुषयोरद्य व्यक्तिर्व्यक्ता भविष्यति ।

 ननु दैवबाधकत्वं कस्यचिदपि पुरुषस्य न समस्ति, येनाहं दैष्टिकमवलम्बय इत्यत्राह-द्रक्ष्यन्तीत्यादि । दैवमानुषयोर्व्यक्तिः-प्रबलदुर्बलविवेकः व्यक्ता भविष्यति । अद्य मत्पौरुषेणैवेति शेषः ॥

 अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ॥ १९ ॥
 [२]देवि ! दैवहतं तेऽद्य दृष्टं राज्याभिषेचनम् ।

 तदेवाह-अद्येति । हे देवि-कौसल्ये ! यथा राज्याभिषेचनं दैवहतं दृष्टं जनैस्त एव जना अद्य दैवं च मत्पौरुषहतं द्रक्ष्यन्ति ॥


  1. विक्लबः-कातरः, तत्प्रतिद्वन्द्वी-संभावितात्मान इति-गो. विक्लवः लोका-प्रसिद्धः-ति.
  2. 'यैर्दैवादाहतं' 'यद्दैवादाहतं'-ङ.