पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
254
[अयोध्याकाण्डः
लक्ष्मणाक्रोशः

 [१]यस्त्वयं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते ॥ १३ ॥
 [२]जायते तत्र मे दुःखं [३]धर्मसङ्गश्च गर्हितः ।

 एवमधर्मे प्रस्पष्टेऽपि तव धर्मबुद्धिर्न जातेति मे दुःखमित्याह-य इत्यादि । यस्त्वयं भेदः-अभिषेक[४]विघटनात्मा उक्तरीत्या किल्बिषात्-मृषावरप्रकल्पनादेव कृतः, एवमपि सर्वथैव तत्त्वत्वेऽपि त्वयैवं न गृह्यत इति यत् तत्र-अत्र मे दुःखं जायते । एवं तत्त्वग्रहा-भावादेव जायमानो गर्हितो धर्मसङ्गश्च-धर्मत्वबुद्धिश्च मम दुःखाय जायते ॥ १३ ॥

 मनसाऽपि कथं कामं [५]कुर्यात्त्वां कामवृत्तयोः ॥ १४ ॥
 तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ।

 पुनश्च दोषस्य दोषत्वेनाग्रहमेव शोचति-मनसाऽपीत्यादि । त्वां विना, केवलदैष्टिकसाधुं विनेत्यर्थः, कामवृत्तयोस्तयोर्वचः परिपालनं मनसाऽपि कथं कुर्यात् ? मनसाऽपि नाशास्ते, अनुष्ठानं तु दूर इत्यर्थः ॥

 यद्यपि प्रतिपत्तिस्ते दैवी चापि तयो[६]मर्तम् ॥ १५ ॥
 तथाप्युपेक्षणीयं ते न मे तदपि रोचते ।

 इदानीं वरप्रसङ्गस्य वास्तवत्वमङ्गीकृत्याप्याह–यद्यपीत्यादि । तयोः पित्रोः प्रतिपत्तिः-स्वपुत्राभिषेकत्ववनवासविषयकवरग्रहगोचरा पितुश्च तदनुमतिगोचरा बुद्धिः दैवी-देवकृता इति ते मता, अथापि तदनुवर्तनं ते उपेक्षणीयं-उपेक्षार्हं,'अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु' इत्यादिस्मृतेर्मुख्योदाहरणत्वात् । एवमुपेक्षणीयमपि नोपेक्षस इति यत्तदपि मे न रोचते ॥ १५ ॥


  1. 'यद्ययं' 'यदयं'-ङ.
  2. एतदनन्तरं 'तवायं धर्मसंयोगो लोकस्यास्य
    विगर्हितः' इत्यधिकम्-ङ.
  3. धर्मंसङ्गः-धर्मासक्तिर्निन्द्या-ति.
  4. विघ्नात्मा-घ.
  5. कुर्यास्त्वं-ङ.
  6. र्मता-ङ.