पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
253
विक्लबो वीर्यहीनो यः स दैवमनुवर्तते

 लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ॥ १० ॥
 नोत्सहे सहितुं, वीर ! तत्र [१] मे क्षन्तुमर्हसि ।

 यदेवमतो–लोकेत्यादि । ज्येष्ठे श्रेष्ठगुणे जाग्रति कनिष्ठविषयत्वाल्लोकविद्विष्टत्वम् । प्रत्यक्षविरुद्धं शास्त्रविरुद्धं चेत्यर्थः । लोक्यत अनेन तत्त्वमिति लोकः शास्त्रं च । एवञ्च स्वपक्षे लक्ष्मणेन युक्तिरुपदिष्टा वेदितव्या । तत्र मे-तद्विषयकं मम प्रतिवचनापराधमित्यर्थः ॥ १० ॥

 येनेयमागता द्वैधं तव बुद्धिर्महामते ॥ ११ ॥
 सोऽपि धर्मो मम द्वेष्यो [२]यत्प्रसङ्गाद्विमुह्यसि ।

 तदेव प्रतिवचनं वक्ति-येनेत्यादि । यस्य पितृवचनस्य प्रसङ्गात्-धर्मत्वप्रसङ्गान्मुह्यसि, येन च तद्धर्मत्वमोहेनेयं तव बुद्धिः द्वैधं-द्विप्रकारं राज्यग्रहत्तत्त्यागलक्षणद्विप्रकारं गता, "द्वित्र्योश्च धमुञ्' इति प्रकारार्थे धमुञ्, स हि धर्मो मम द्वेष्यः-[३]धर्माभासत्वादनङ्गीकार्य इत्यर्थः ॥ ११ ॥

 कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ॥ १२ ॥
 करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् !

 [४]आभासत्वमेव प्रतिपादयति-कथमित्यादि । कर्मणा-अचिन्त्य-वैभवस्वक्रियाशक्त्या कर्तुमकर्तुमन्यथाकर्तुं च शक्तः-समर्थस्त्वं कैकेयी-वशवर्तिनः पितुर्वाक्यमुक्तहेतोरेवाधर्मिष्ठं विगर्हितं च कथं करिष्यसि ॥


  1. मे तत्र-असहनविषये क्षन्तुमर्हसि-गो.
  2. प्रसङ्गाद्यस्य मुह्यसि-ङ.
  3. धर्माभावत्वा-क.
  4. अभावस्वमेव-क.