पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
252
[अयोध्याकाण्डः
लक्ष्मणाक्रोशः

प्रकृते तथात्वं कथमित्यत्राह-तयोरित्यादि । सुचरितं त्वां त्वदर्थं च शाठ्यात्-मृषाक्लृप्तधर्मव्यवहारात् परिजिहीर्षतोः-निरासिसिष्वो-स्तयोरप्युक्तहेतोर्धर्मकञ्चुकत्वमेव ॥ ८ ॥

 [१]यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ! ॥ ९ ॥
 तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ।

 एवन्त्वस्य प्रयोजकश्शाठ्यहेतुरसिद्ध एवेत्याशंक्य तमर्थापत्त्या साधयति-यदीत्यादि । हे राम ! यद्येवं न व्यवसितं-त्वदर्थप्रच्या-वनमेव येनकेनचिच्छाठ्येन चिकीर्षितं यदि न स्यात्, वरप्रसङ्गश्च यदि सत्यः स्यात् तदा तु हि-यस्मात् प्रागेव-पूर्वकाल एव प्रकृतः-[२]प्रवृत्तप्रसङ्गः स वरः राज्ञो मनसि विपरिवर्तमानो युष्मदभिषेकप्रसङ्गात्प्रागेव दत्तश्च स्यात् । 'अस्यै वरद्वयं दत्तं, इदमवश्यं निर्यातनीयम्; अन्यथा लोकचित्तस्यार्थपरस्यातिचलत्वादाभिषेकविघ्न एतद्वारा भविष्यति' इति निश्चित्य त्वदर्थविघ्नव्यतिरिक्तेनैव केनचिदर्थेन पूर्वमेव [३]निर्यातयेत् । तत्तु न कृतम् । अत उभावपि त्वदर्थप्रच्यावने हृदयशठावित्यर्थः । अत्र यद्यपि परिहारोऽस्ति-वृद्धत्वाद्राज्ञा विस्मृतो वरप्रसङ्गः । तया तु गूढहृदयत्वाद्यावत्स्वाभिमतकालं गुप्तमित्यादिकं-अथापि रुष्टेन तत्सर्वं न परिहर्तव्यमित्युपेक्षितम् ॥ ९ ॥


  1. अयं भावः-भरतायावश्यं राज्यं देयम् । रामस्य ज्येष्ठत्वेन तद्विषयोऽभिषेक आरभ्यते । अन्यथा लोकविरोधः । तदानीं त्वया वरद्वयं प्रष्टव्यम् । तद्व्याजेन रामो विवास्यते,
    भरतोऽभिषिच्यत इति कैकेयीदशरथाभ्यां सङ्केतितम् । अन्यथा सा वरद्वयं किमेतावत्पर्यन्तं न याचेत । अयाचितमपि तत् नीतिज्ञो राजा वा कुतो न पूर्वमेव परिहरेदिति-गो.
  2. कृतप्रसङ्गः-घ.
  3. निर्यातयितव्यत्वात्-घ.