पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
251
किं नाम कृपणं दैवं राम ! त्वमभिशंससि

 तथात्वमेव प्रतिपाद्यते-कथं हीत्यादि । अशौण्डीरं-असमर्थं-अकिञ्चित्करमेव दैवमिति किञ्चिद्वस्तु प्रबलमिति यथा त्वं वदसि एवं शौण्डीरः-दैवमपि निराकर्तुं समर्थः त्वद्विधः क्षत्रियर्षभो यद्यसंभ्रान्तः स्यात्तदासौ कथमेतद्वक्तुमर्हति ? न कथमपि ॥ ६ ॥

 किन्नाम कृपणं दैवमशक्तमभिशंससि ॥ ७ ॥

 अतः कृपणं-असमर्थैकपरिग्राह्यं अतश्शोच्यं-दीनं पौरुषसन्निधौ मन्दबलं, अत एवाशक्तं-पौरुषमतिक्रम्य कार्यासमर्थप्राक्कृतवत्किं नामाभिशंससि-अभिष्टौषि ॥ ७ ॥

 पापयोस्ते कथं नाम तयोश्शङ्का न विद्यते ।

 एवं देवावलम्बनवादं प्रतिक्षिप्य धर्मदोषप्रसङ्गं परिहरति-पापयोरित्यादि । पापात्मनोस्तयोः-कैकेयीदशरथयोर्विषये ते कथं नाम शङ्का-पापात्मत्वशङ्का न विद्यते ॥

 सन्ति [१]धर्मोपधासक्ता धर्मात्मन् ! किं न बुध्यसे ॥ ८ ॥
 [२]तयोस्सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः ।

 ननु कथं धर्मावलम्बनव्यवहारयोस्तयोः पापशङ्काप्रवृत्तिरित्यत्राह-सन्तीत्यादि । हे धर्मात्मन् लोके धर्मोपधासक्ताः-धर्मव्याजपराः बहिः, अन्तः प्रच्छन्नपापजनास्सन्तीत्येतन्न बुध्यसे किम् ? अस्ति लोके,


  1. धर्मोपधाः श्लक्ष्णाः-ङ.
  2. स्वार्थं अभिषेकरूपमस्मत्प्रयोजनं परिजिहीर्षतोः-परिहर्तुमिच्छतोः तयोः-कैकेयी-दशरथयोः सुचरितं-सुष्ठुमन्त्रितं किं न बुध्यसे-गो. ती. स्वार्थे-स्वेष्टसिद्ध्यर्थमिति वा ।