पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
250
[अयोध्याकाण्डः
लक्ष्मणाक्रोशः

 तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ ४ ॥
 अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ।

 अग्रं हस्तस्याग्रहस्तं, एकदेशसमासः पूर्वपरादिव्यतिरिक्तस्थलेऽपि क्वचिद्भवति-सायमह्नस्सायाह्ने-सायाहनीतिवत् । आत्मनोऽग्रहस्तं विधून्वन्नित्यनेन रामेण क्षमापणाय लक्ष्मणहस्तो गृहीत इति शेष इत्यपि वक्तुं शक्यं, तथा प्रस्तावात् । तिर्यगित्यादिनाप्यतिक्रोधमूर्छन-प्रदर्शनम् । अग्राक्ष्णा-कटाक्षेण तिर्यग्वीक्षमाणः ॥ ४ ॥

 अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् ॥ ५ ॥
 [१]धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ।

 अस्थान इत्यादि । धर्मदोषः-धर्मविरोधः, तत्प्रसङ्गेन-तत्परिहारशेषतया वनवासः कार्यः । लोकस्य प्राप्तातिशङ्कापरिहारहेतवे च । रामोऽपि पितृवचो नाकार्षीत्, कः खलु लोकेऽन्यः पितृवचः प्रमाणी-करिष्यतीति लोकनाशप्रसङ्गपरिहारार्थमित्यर्थः । तथा हि जगौ- 'यद्यदाचरति' इत्यादि 'उपहन्यामिमाः प्रजाः' इत्यन्तम् । उक्तहेतोः, वै-प्रसिद्धः सुमहानयं संभ्रमः-वनगमनत्वरात्मा यस्य ते जातः सोऽयमस्थाने अयुक्तः-भ्रान्तिमूल एवेत्यर्थः ॥ ५ ॥

 [२]कथं ह्येतदसं[३]भ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ ६ ॥
 यथा दैवमशौण्डीरं [४]शौण्डीरः क्षत्रियर्षभः ।


  1. एवं वाऽर्थः-धर्महानिप्रसक्त्या लोकस्यानतिशङ्कया अनतिः-अपूजा, तद्विषयशङ्कया-लोको मामधर्मिष्ठ इति न पूजयेदिति शङ्कयेत्यर्थः यस्य ते अयुक्तः सुमहान्-संभ्रमो भ्रान्तिर्जाता। धर्महानिलांकनत्यभावो वा सर्वातिशायिनस्ते किं करिष्यतीति
    भावः-गो.
  2. हे शौण्डीर-समर्थ, दैवमपि निराकर्तुं क्षमेत्यर्थः; क्षत्रियर्षभ-क्षत्रियश्रेष्ठ त्वं अशौण्डीरं-अशूरं तत् दैवं यथा समर्थं वदसि एवं असंभ्रान्तस्त्वद्विषः कथं वक्तुमर्हति–न कथमपि । अशूरः संभ्रान्तः क्षत्त्रबन्धुरेवासमर्थ दैवमनुसर्तुमर्हतीत्यर्थः-गो.
  3. भ्रान्तं-ङ.
  4. शौण्डीर क्षत्रियर्षभ-ङ.