पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
249
इति ब्रुवति रामे तु लक्ष्मणः पुनरब्रवीत्

शिशरस्त्वम् । [१]दुःखहर्षयोः-दुःखसुखयोः मनसा मध्यं जगामेव । अतिलौकिकपौरुषनिधिनापि रामेण दैवप्राबल्यपरमसिद्धान्तावष्टंभेनोपदिष्ट-बुद्धियोगो यदा मनसा स्मृतो भवति तदा सुखं प्राप्नोति, यदा तु प्रकृतिवशतो विस्मृत्य पौरुषप्राबल्यं स्मरति तदा श्रीनिवृत्त्यादिकमसहमानः क्रोधात्मकं दुःखं प्राप्नोति । इवशब्दान्माध्यस्थ्यं अपरमार्थं, स्वप्रकृत्यनुकूलव्यापार एव प्रबल इति प्रदर्श्यते । तथा हि गीयते–'सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि' इति ॥ १ ॥

 [२]तथा तु बध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः ।
 निशश्वास महासर्पो [३]बिलस्थ इव रोषितः ॥ २ ॥

 अथ प्रकृतिप्राबल्यात्प्रकृतिप्रयुक्तव्यापारमेव प्राप्तवानिति प्रदर्श्यते-तथा त्वित्यादि । तथा भयङ्करामित्यर्थः । बिलशब्देन पातुर्बिलमेव द्रष्टव्यम्। अन्यबिलस्थस्य परमसुखित्वेन निग्रहाभावेन रोषाद्यप्रसंगात् ॥ २ ॥

 तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा ।
 बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥

 प्रतिमुखतया वीक्षितुमशक्यं-दुष्प्रतिवीक्षम् । मुखस्य सदृशमिति । मुखस्य दुर्दर्शत्वेन सदृशमिति यावत् ॥ ३ ॥

 [४]अग्रहस्तं विधून्वंस्तु [५] । हस्ती हस्तमिवात्मनः ।


  1. दैन्यहर्षयोः-घ.
  2. तदा तु कृत्वा-ङ.
  3. बिलमत्र परबिलं-ति. बिलस्थः-पेटिकाबिलस्थः ; न तु वल्मीकस्थः तदानीं रोषासंभवात्-गो.यद्वा स्वबिलस्थ एव रोषितः-विप्रकृतः.
  4. अग्रहस्तं-दक्षिणकरं-शि.
  5. 'हस्तिहस्तं'-गो. हस्तिहस्तसदृशमित्यर्थः । अभीष्टासिद्धिमूल-
    कात्यधिककोपे सति हस्तविधूननं मनुष्याणां स्वभावः । प्रकृतव्याख्याकारस्तु लक्ष्मणसान्त्वनाय रामेण गृहीतमग्रहस्तं लक्ष्मणो विधून्वन्-विमोचयन् इत्यभिमन्यते । तिलकेऽप्येवं व्याख्यातम्